सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 500, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 500

४ प्रपाठके १० अनुवाकः । ४६५

व्यापित्वेन गतियुक्तस्य, 'पितुमतः' अन्नसाधनत्वेनान्नयुक्तस्य,
'अङ्गिरस्वतः' अङ्गसौष्ठवहेतोः, 'स्वधाविनः' अमृतयुक्तस्य, 'ते'
तव सारं, 'अश्याम्' भक्षयेम् । अथवा 'स्वधाविनः' इत्युत्तर-
चान्वेतव्यं । यस्मात् स्वधाविनोऽमृतत्वार्थिनो वयं त्वां 'अशी-
महि' तस्मान्मां 'मा हिंसीः' ॥

मधुशब्देन स्वादुत्वं विवक्षितमिति दर्शयति । "घृतवद्
हविर्मधुमद्धविरित्याह । स्वदयत्येवैनं" इति । (५ प्र०।८अ०।
४० म०) ॥

अग्निशब्देन प्राणविवक्षां दर्शयति । "इन्द्रतमेऽग्नावित्याह ॥११॥
प्राणो वा इन्द्रतमोऽग्निः । प्राण एवैनमिन्द्रतमेऽग्नौ जुहोति" ।
(५ प्र०।८अ०।४१म०) ॥

मा हिंसीरिति प्रार्थनाया अन्तरणादिहिंसापरिहा-
रार्थत्वं दर्शयति । "पिता नोऽसि मा मा हिंसीरित्याहा-
हिंसायै" इति । (५ प्र०।८अ०।४२ म०) ॥

अश्याम इत्यस्य लिङ्प्रत्ययस्याशिरर्थविवक्षां दर्शयति । "अ-
श्याम ते देव घर्म मधुमतो वाजवतः पितुमत इत्याह । आ-
शिषमेवैतामाशास्ते" इति । (५ प्र०।८अ०।४३ म०) ॥

मा हिंसीरित्यनेन देवताशरीरभक्षणप्रयुक्तहिंसानिवा-
रणविवक्षां दर्शयति । "स्वधाविनोऽशीमहि त्वा मा मा
हिंसीरित्याहाहिंसायै" इति । (५ प्र०।८अ०।४४ म०) ॥

उक्तमन्त्रसाध्यं भक्षणं विधत्ते । "तेजसा वा एते व्यृध्यन्ते ।
ये प्रवर्गेण चरन्ति । प्राश्नन्ति । तेज एवात्मन् दधते" इति ॥१२॥

३ ९