सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 405, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 405

४०० तैत्तिरीये आरण्यके

(११)सूर्य॑स्य॒ हर॑सा॒ आय(११) । (१२)म॒खोऽसि॑(१२) ॥ ५ ॥
प॒ते॒, शिर॑:, ऋ॒तावरीं॑कृ॒न्ध्यास॒म॒द्य म॒खस्य॒ शिर॑:,
शिर॑:, शिरो॑ऽसि॒, नव॑ च ॥ अनु० २ ॥

यतः *परिमाणाभावरूपं पक्षान्तरं विधत्ते । “अपरि-
मितं करोति । अपरिमितस्यावरुद्ध्यै” इति । (५ प्र० । ३ अ० ।
१४ म०) । परिमाणनियत्यभावेनापि †निमित्तलबहुलं फलं
सम्पद्यते ॥

यदुक्तं सूत्रकारेण उपबिलं गात्नाङ्करोतीति तदत्र विध-
त्ते । “परिग्रीवं करोति धृत्यै” इति । (५ प्र० । ३ अ० । १५ म०) ।
ग्रीवायाः परितः ‘परिग्रीवं’ तत्र वलयाकारो धारणायोपयु-
ज्यते ॥

कल्पः । (११)“सूर्य्यस्य हरसा आय” (११) इति । इत्युत्तरतः
सिकतासु प्रतिष्ठाप्येति । हे महावीर ‘सूर्य्यस्य हरसा’ तेजसा
आतपेन, ‘आय’ कृष्णाङ्गो भव ॥

मन्त्रस्य स्पष्टार्थतां दर्शयति । “सूर्य्यस्य हरसा आयेत्याह ।
यथा यजुरेवैतत्” इति । (५ प्र० । ३ अ० । १६ म०) ॥

कल्पः । “मखोऽसीत्यनुवीक्षते” इति । हे महावीर त्वं
यज्ञसाधनत्वात् ‘मखः’ यज्ञस्वरूपः, ‘असि’ ॥


* नियतपरिमाणरूपाभावरूपं तै० पाठः ।
† निमित्तेन D चिह्नितपुस्तकपाठः ।