सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 403, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 403

३६८ तैत्तिरीये आरण्यके

छन्द॑सा करोमि^(१९) । ^{(२०)}म॒खस्य॒ रास्ना॑सि^{(२०)} । ^{(२१)}अ-

(५ प्र०। ३ अनु०। ७ म०) । एतेषां मन्त्राणां पाठेन महावीरस्येदं
छन्दो देवतादिभिर्निष्पादितं भवति ॥
एकैकस्मिन् महावीरे कच्यात्रयं विधत्ते । “त्र्युद्बिं करोति।
त्रय इमे लोकाः एषां लोकानामाप्त्यै।” इति। (५ प्र०। ३ अनु०।
८ म०) । भाण्डस्योपरिभाण्डान्तरप्रक्षेपे यादृश आकारो भ-
वति । तादृश आकार उद्बिरित्युच्यते । ऊर्ध्वाधोभावेनाव-
स्थितभाण्डत्रयवत् त्रिविधा उधा यस्य* महावीरस्य सोऽयं
‘त्र्युद्बिः’ । तत्र त्रित्वसाम्याल्लोकत्रयप्राप्तिः ॥
पूर्वव्याख्यातैः छन्दःप्रतिपादकैर्मन्त्रैः तन्निष्पादनं विध-
त्ते । “छन्दोभिः करोति ॥ ३ ॥ वीर्यं वै छन्दाꣳसि । वीर्येणै-
वैनं करोति।” इति । (५ प्र०। ३ अनु०। ९ म०) । वीर्यप्रदत्वात्
गायत्र्यादिच्छन्दसां वीर्यरूपत्वं ॥
कल्पः । ^{(२०)}“मखस्य०रास्नासि”^{(२०)} इति। उपबिलं रास्नां
करोतीति । बिलस्य समीपे वर्त्तमान हे वलयाकार त्वं यज्ञस्य
‘रास्ना’ रसना, ‘असि’ । यथा काञ्चीदाम, कण्ठाभरणं वा
तद्वत् ॥
कल्पः । ^{(२१)}“अदितेस्ते बिलं गृह्णातु”^{(२१)} इति वेणुपर्वणा
बिलं करोतीति । पाङ्क्तेन छन्दसेति मन्त्रशेषः । हे महावीर

* उच्छ्राया इति तै० प० ठः ।