सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 400, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 400

४ प्रपाठके २ अनुवाकः। ३९५

अग्नेः प्रिया तनूः। यदजा। प्रिययैवैनं तनुवा सꣳसृजति।
अथो तेजसा।” इति। (५प्र०।२अ०।२८म०)। अजाग्नेोः प्रजा-
पतिमुखजत्वेन सोदरत्वात् प्रियत्वं। अपि चाग्नेः स्वेनैव तेजो-
रूपत्वात् 'तेजसा', द्रव्यं संसृष्टं भवति ॥

द्रव्यान्तरं विधत्ते। “कृष्णाजिनस्य लोमभिः सꣳसृजति।
यज्ञो वै कृष्णाजिनं। यज्ञेनैव यज्ञꣳसꣳसृजति।” ॥ १३ ॥ इति।
(५प्र०।२अ०।२६म०)। अवघातप्रस्तावे यज्ञो देवेभ्योऽनिलायत
कृष्णोरूपं कृत्वेत्युक्तत्वात् कृष्णाजिनस्य यज्ञत्वं तल्लोमरूपेण
‘यज्ञेनैव’, महावीरद्रव्यरूपः ‘यज्ञः’, संसृष्टो भवति ॥

महावीरनिर्माणाय देशविशेषं ब्राह्मणगततृतीयानुवाके
विधत्ते। “परिश्रिते करोति। ब्रह्मवर्चमस्य परिगृह्यै।”
इति। (५प्र०।३अ०।१म०)। योऽयं देशः परितः कटादि-
भिरावृतः तस्मिन् ‘परिश्रिते’, महावीरं ‘करोति’ *। तदे-
तद्ब्रह्मवर्चसपरिग्रहाय भवति ॥

तत्र नियमं कञ्चिद्विधत्ते। “न कुर्वन्नभिप्राण्यात्। यत्
कुर्वन्नभिप्राण्यात्। प्राणाञ्च्छुचार्पयेत्। अपहाय प्राणिति।
प्राणानां गोपीथाय।” (५प्र०।२अ०।३०म०) इति। सोऽयं
तदानीं ‘नाभिप्राण्यात्’ तदाभिमुख्येन श्वासं न कुर्यात्।
तत्करणे स्वकीयाः ‘प्राणाः’, दुःखेन योजिता भवन्ति। त-
स्मात् मुखं ‘अपहाय’, परतो नीत्वा श्वासं कुर्यात्। तच्च
‘प्राणानां’, रक्षणाय भवति ॥

नियमान्तरं विधत्ते। “न प्रवर्ग्यं वादित्यं चान्तरेयात्।


* कुर्यादिति तै० पाठः।