सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 106, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 106

१ प्रपाठके १२ अनुवाकः । २०१

श्वेत॑सिकद्रुक॒: । सं॒व॒त्स॒रो वि॒षूवर्णे॑: । नित्या॒स्तेनु॑च-
रा॒स्तव॑^{(७)} । ^{(८)}सुब्र॒ह्म॒ण्यो३॑ सुब्र॒ह्म॒ण्यो३॑ सुब्र॒ह्म॒ण्यो॑ ।
इन्द्राग॑च्छ॒ हरि॑व॒ आग॑च्छ मेधातिथेः । मेष॒ वृषणश्वस्य॑
मेने॒ ॥ ३ ॥


वर्त्तमाने कालान्तरं सह प्रवर्त्तन्ते । ‘हरित्वमापन्नैः’ हरिनामक-
त्वदीयाश्वत्वं प्राप्तैः, कालाभिमानिदेवा एव तवाश्वा इत्यर्थः ।
कीदृश इन्द्रः, ‘सहस्रयुक्’ अर्चिस्सहस्रेण युक्तः ॥

अथ द्वितीयामाह । ^{(७)}“अग्निर्विभ्राष्टिवसनः ० नित्यास्ते-
नुचरास्तव”^{(७)} इति । हे इन्द्र ‘अग्निः’ ‘वायुः’ ‘संवत्सरः’, ये त्रयः
सन्ति ते त्रयोपि ‘तव नित्या अनुचराः’, कदाचिदप्यनपायिनो
नित्याः । कीदृशोऽग्निः, ‘विभ्राष्टिवसनः’ विशेषेण भ्राजमान-
वसनयुक्तः । कीदृशो वायुः, ‘श्वेतसिकद्रुकः’ श्वेतानां सिकतानां
द्रोग्धा, तदेतदुपलक्षणं, नानाविधां धूलिमुत्पादयतीत्यर्थः ।
कीदृशः संवत्सरः, ‘विषूवर्णैः’ नानाविधैर्वर्णैर्युक्तः । वसन्ताद्यृतु-
भेदाः पूर्वमेवोक्ताः ॥

कल्पः । सुब्रह्मण्योमित्येकामिति । पाठस्तु । ^{(८)}“सुब्रह्मण्यो३ ०
गौतम ब्रुवाण”^{(८)} इति । शोभनं ब्रह्म सुब्रह्म वेदः तस्मै हितः
‘सुब्रह्मण्यः’ इन्द्रः, ‘ॐ’, इति सम्बोधनार्थः । हे सुब्रह्मण्येति
त्रिर्भिधानमादरार्थं । तद्गुणकथनेन स्तुत्यर्थमिन्द्रादिपदैः
सम्बोधनं । हे ‘इन्द्र’ परमैश्वर्ययुक्त, इह कर्मणि ‘आगच्छ’,