स्याद्वादमञ्जरी (आचार्य मल्लिषेण सूरि - डॉ. जगदीशचन्द्र जैन सविस्तार हिन्दी अनुवाद सटीक)
Syadvadamanjari of Mallishena Suri with Hindi Commentary
आचार्य मल्लिषेण सूरि (अनुवादक: डॉ. जगदीशचन्द्र जैन) द्वारा
पृष्ठ 300, कुल 458 में से
संदर्भ में पढ़ें२४८ श्रीमद्राजचन्द्रजैनशास्त्रमालायां [ अन्य. यो. व्य. श्लोक २८
एत एव च परामर्शा अभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नयसंज्ञा-
मश्नुवते । तद्बलप्रभावितसत्ताका हि खल्वेते परप्रवादाः । तथाहि—नैगमनयदर्शनानुसारिणौ
नैयायिकवैशेषिकौ । संग्रहाभिप्रायवृत्ताः सर्वेऽप्यद्वैतवादाः सांख्यदर्शनं च । व्यवहारनयानुपाति
प्रायश्चार्वाकदर्शनम् । ऋजुसूत्राकूतप्रवृत्तबुद्धयस्तथागताः शब्दादिनयावलम्बिनो
वैयाकरणादयः ॥
उक्तं च सोदाहरणं नयदुर्नयस्वरूपं श्रीदेवसूरिपादैः । तथा च तद्ग्रन्थेः— "नीयते येन
श्रुताख्यप्रमाणविषर्याकृतस्य अर्थस्य अंशस्तदितरांशौदासीन्यतः स प्रतिपत्तुर्भिप्रायविशेषो नयः
इति । स्वाभिप्रेताद् अंशाद् इतरांशपलावी पुनर्नयाभासः । स व्याससमासाभ्यां द्विप्रकारः ।
व्यासतोऽनेकविकल्पः २ । समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ३ । आद्यो नैगमसंग्रह-
व्यवहारभेदात् त्रेधा । धर्मयोर्धर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स
नैकगमो नैगमः । सत् चैतन्यमात्मनीति धर्मयोः । वस्तुपर्यायवद्द्रव्यमिति धर्मिणोः । क्षणमेकं
सुखी विषयासक्तजीव इति धर्मधर्मिणोः धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धिर्नैगमाभासः ।
यथा आत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादि । सामान्यमात्रग्राही परामर्शः
संग्रह