स्याद्वादमञ्जरी (आचार्य मल्लिषेण सूरि - डॉ. जगदीशचन्द्र जैन सविस्तार हिन्दी अनुवाद सटीक)
Syadvadamanjari of Mallishena Suri with Hindi Commentary
आचार्य मल्लिषेण सूरि (अनुवादक: डॉ. जगदीशचन्द्र जैन) द्वारा
पृष्ठ 276, कुल 458 में से
संदर्भ में पढ़ें२२४ श्रीमद्द्रायचन्द्रजैनशास्त्रमालायां [ अन्य. यो. व्य. श्लोक २४
सत्त्वप्राप्तेः । तथा च निरूपाख्यत्वात् सर्वशून्यतेति । तदा हि विरोधः स्याद् यद्येकोपाधिकं
सत्त्वमसत्त्वं च स्यात् । न चैवम् । यतो न हि येनैवांशेन सत्त्वं तेनैवासत्त्वमपि । किं त्वन्यो-
पाधिकं सत्त्वम्, अन्योपाधिकं पुनरसत्त्वम् । स्वरूपेण हि सत्त्वं पररूपेण चासत्त्वम् ॥
दृष्टं ह्येकस्मिन्नेव चित्रपटावयवनि अन्योपाधिकं तु नीलत्वम्, अन्योपाधिकाश्चेतरे
वर्णाः । नीलत्वं हि नीलीरागाद्युपाधिकम्, वर्णान्तराणि च तत्तद्रञ्जनद्रव्योपाधिकानि । एवं
मेचकरत्नेऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यमवसेयम् । न चैभिर्दृष्टान्तैः सत्त्वासत्त्वयोर्भिन्न-
देशत्वप्राप्तिः चित्रपटाद्यवयविन एकत्वात् तत्रापि भिन्नदेशत्वासिद्धेः । कथंचित्पक्षस्तु दृष्टान्ते
दाष्ट्रान्तिके च स्याद्वादिनां न दुर्लभः । एवमप्यपरितोषश्चेद् आयुष्यमतः, तर्ह्येकस्यैव पुंसस्तत्तदु-
पाधिभेदात् पितृत्वपुत्रत्वमातुलत्वभागिनेयत्वपितृव्यत्वभ्रातृव्यत्वादिधर्माणां परस्परविरुद्धा-
नामपि प्रसिद्धिरर्शनात् किं वाच्यम् । एवमवक्तव्यत्वादयोऽपि वाच्या इति ॥
उक्तप्रकारेण उपाधिभेदेन वास्तवं विरोधाभावमप्रबुध्यैवाज्ञात्वैव । एवकारोऽवधारणे ।
स च तेषां सम्यग्ज्ञानस्याभाव एव न पुनर्लेशतोऽपि भाव इति व्यनक्ति । ततस्ते विरोधभीताः
सत्त्वासत्त्वादिधर्माणाम्बहिर्मुखशेमुष्या संभावितो वा विरोधः सहानवस्थानादिः, तस्माद्
भीतास्त्रस्तमानसाः । अत एव जडाः तात्त्विकभयहेतोरभावेऽपि तथाविधपशुवद् भीरुत्वान्मूर्खाः
परवादिनः । तदेकान्तहताः तेषां सत्त्वादिधर्माणाम् य एकान्त इतरधर्मनिषेधेन स्वाभिप्रेतधर्म-
व्यवस्थापननिश्चयस्तेन हता इव हताः । पतन्ति स्खलन्ति पतिताश्च सन्तस्ते न्यायमार्गाक्रमणे
न समर्थाः । न्यायमार्गाध्वनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति भावः । यद्वा पतन्तीति
प्रमाणमार्गतः च्यवन्ते । लोके हि सन्मार्गच्युताः पतित इति परिभाष्यते । अथवा यथा वज्रा-
का स्वस्वरूपसे भी अस्तित्व न रहा तो सभी पदार्थोंके निरुपाय बन जानेसे—सभी पदार्थों