सुर्जन चरित महाकाव्यम् (कवि चन्द्रशेखर - बूँदी हाड़ा चौहान राजवंश शौर्य इतिहास सटीक)
Surjana Charita Mahakavya of Chandrashekhara with Commentary
कवि चन्द्रशेखर (सम्पादक: डॉ. चन्द्रधर शर्मा) द्वारा
पृष्ठ 4, कुल 256 में से
संदर्भ में पढ़ेंतस्मात् महाकाव्येष्वस्य काव्यस्य गणनायां महाकविषु च चन्द्रशेखरमहाभागस्य गणनायां न
कापि संशीतिः । महाकविरयं बङ्गदेशीयोऽपि कथं कदा वा बुन्दीराज्यमागतः कियन्तं च कालं
तत्र राजकविपदमलञ्चकार इति सुस्पष्टं न प्रतीयते । सुर्जनमहाराजेनास्य सुचिरं समागम इति
केवलमनुमीयते । सुर्जनमहाराजोऽन्तिमे वयसि वाराणसीमध्युवास तत्रैव च ब्रह्मसा-
युज्यमापेति सुस्पष्टमैतिहासिकी घटना । रणस्तम्भपुरदुर्गमुपादाय तत्प्रतिनिध्येन
उत्तरप्रदेशस्य कतिचन भागा वाराणसीचुनारप्रभृतयः सम्राजाऽकबरेण सुर्जनमहाराजाय वितीर्णा
इत्यत्रैव ग्रन्थे वर्णितं ऐतिहासिकं तथ्यं च तत् । तत्प्रसंगेनैव काश्यां शासकरूपेण तस्य निवासः।
वदान्यतमश्चायमस्मिन् प्रदेशे बहूनि देवमन्दिराणि सरांसि प्रासादान् घट्टांश्च निर्मापयामास
यान्यद्यापि तत्र तत्रोपलभ्यन्ते । काश्यां राजमन्दिरमित्यद्यत्वे प्रख्यातो भागो बुन्दीराजमन्दिर-
सत्तयैव ख्यातिमगात् तत्र च सुर्जनमहाराजस्य स्मारकमप्युपलभ्यते । तदेवं काशीमधिवसतो
महाराजस्य अत्रैव बंगदेशीयेन कविनानेन समागमः संभाव्यते । अनन्तरं च बुन्दीराज्येऽपि काले
काले तस्य यातायातमभूदिति तद्वर्णनालोचनेन स्फुटीभवति ।
अस्य च काव्यस्य गुणगणलुब्धेन मयैतत्प्रकाशनमत्यन्तं समुचितमित्युपक्रान्तम् । निवेदिता-
श्चैतदर्थं श्रीमन्तः श्रीभीमसिंहवर्माणः कोटानरपतयः । तैश्चात्युदारै र्गुणग्राहिभिः पुस्तकप्रकाशा-
दिव्ययः सप्रमोदं स्वीकृतः । अस्माकं पूर्वजानां राजपुरोहितपदभाजां कोटामहाराजैः साकमस्ति
.चिरकालिकः सम्बन्धः । मत्पितृचरणा अद्यापि कोटानगरमेवाधिवसन्ति राजपुरोहितपदमलं-
कुर्वन्ति च तेषामाज्ञयैवाहं पुस्तकस्यास्य प्रकाशने संप्रवृत्तः । तद्ग्रन्थोऽयं सहृदयान् सेवितुं
यदुपतिष्ठति सोऽयं वर्तमानकोटानरेशस्यैव प्रसादः । गुणग्राहिणो महाराजस्य प्रातिस्विका-
मात्याः श्रीदलेलसिंहमहाभागाश्चाप्यत्र धन्यवादाः यैः प्रसङ्गोऽयं महाराजसविधे समु-
पनीतः प्रोत्साहिताश्चैतदर्थं महाराजाः ।
संस्कृतभाषानभिज्ञा अपि काव्यस्यास्य कल्पनादिरासास्वादान् माभूवन् वञ्चिता इति
हिन्दीभाषानुवादोऽपि मयाऽत्र निवेशितः । स्थाने स्थाने च तत्तत्तच्चमत्कृतिस्पष्टीकरणाय
काठिन्यनिवृत्तये च संस्कृतेऽपि संक्षिप्तं टिप्पणं निवेशितम् । आदर्शपुस्तकमेकमेव मया प्राप्तमि-
त्युक्तं प्राक् । ततश्च यत्र यत्र लेखकत्रुटिस्तत्र तत् संशोधनस्य नासीत् कश्चिदुपाय इति स्वमनीष-
यैव क्वचित् क्वचित् पाठभेदा ऊहिताः । त एव चात्र निवेशिताः । मानवसुलभाज्ञानवशात्
यदि भवेत् काचित् तत्र त्रुटिस्तर्हि तदर्थमहमेवापराध्यामि ।. अस्मिन् पाठसंशोधनटिप्पणादि-
कार्ये महामहोपाध्यायवाचस्पतिश्रीगिरिधरशर्मचतुर्वेदमहाभागैः सर्वतन्त्रस्वतन्त्रकविताकिकचक्र-
वर्तिश्रीमहादेवपाण्डेयमहाभागैश्च सुबहुसाहाय्यमाचरितमिति तयोर्नितरामुपकारभारं वहामि ।
तयोराशिषैव च ग्रन्थस्यास्यैतावत् सुन्दरं शुद्धं प्रकाशनं सम्पन्नम् ।
महाकाव्यस्यालोचनेन सहृदया यदि लोकोत्तराह्लादं प्रसादञ्चाधिगच्छेयुः संस्कृतछात्राश्च
वर्णनशैल्याऽस्य कृतोपकारा भवेयुस्तर्हि परिश्रमं स्वीयं सफलमाकलयिष्यामीति ।
हिन्दू विश्वविद्यालयः
काशी
चन्द्रधरशर्मा