सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 49, कुल 516 में से
संदर्भ में पढ़ें३४ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
नानार्थाहरणं च कोङ्क्षति मृदोलंकारमाकर्षति । आदत्ते
सकलं सुवर्णनिचयं धत्ते रसान्तर्गतं दोषान्वेषणतत्परो विज-
यते चोरोपमः सत्कविः ॥ ५२ ॥ स्वेच्छाभङ्गुरभाग्यमेघ-
तडितः शक्या न रोद्धुं श्रियः प्राणानां सततं प्रयाणपटह-
श्रद्धा न विश्राम्यति । त्राणं येऽत्र यशोमये वपुषि वः कुर्व-
न्ति काव्यामृतैस्तानाराध्य गुरून्विधत्त सुकवीन्निर्गर्वमूर्धी-
श्वराः ॥ ५३ ॥ कल्याणं भगवत्कथाकथनतः काव्यं विधातुः
कवेस्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गारवीरादिकम् । को
दोषो भविता यदत्र कविताशैले समाश्रीयते पन्था व्यास-
वसुधराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥ ५४ ॥ ते भूमिपतयो
जयन्ति नतयो येषां द्विषद्भूभृता ते वन्द्या यतयो विशान्ति
मतयो येषां परे ब्रह्मणि । ते श्लाघ्याः कवयो दयोमदभर-
व्याजृम्भमाणाङ्गनादृक्पाता इव तोषयन्ति हृदयं येषां गिरां
संचयाः ॥ ५५ ॥ भूतावेशनिवेशिताशय इव श्लोकं करो-
त्याशु यः श्लाघन्ते कविरद्भूतोऽयमिति तं मिथ्या जना
विस्मिताः । द्वित्राण्येव पुरः पदानि रचयन्पश्चात्समालोचयन्दूरं
यः कवितां निनीषति कविः कामेव स स्तूयताम् ॥ ५६ ॥
सत्यं सन्ति गृहे गृहेऽपि कवयो येषां वचश्चातुरी खे हर्म्ये
कुलकन्यकेव लभते स्वल्पैर्गुणैर्गौरवम् । दुष्प्रापं तु कोऽपि
कोविदमतिर्यद्वाग्रसग्राहिणा पण्यस्त्रीव कलाकलापकुशला
चेतांसि हर्तुं क्षमा ॥ ५७ ॥ धन्यास्ते कवयो यदीयरमना-
रूक्षाध्वसंचारिणी धावन्तीव सरस्वती द्रुतपदन्यासेन निष्क्रा-
मति । अस्माकं रसपिच्छिले पथि गिरां देवी नवीनोदयत्पी-
नोत्तुङ्गपयोधरेव युवतिर्मान्थर्यमालम्बते ॥ ५८ ॥ साहित्ये
सुकुमारवस्तुनि दृढन्यासग्रहग्रन्थिले तर्के वा सयि संविधा-
तरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदपटा
दर्भार्डुरैरास्तृता भूमिर्वा हृदयंगमो यदि पतिस्तुल्या रति-
र्योषिताम् ॥ ५९ ॥ येषां कोमलकाव्यकोशकलालीलावती
भारती तेषां कर्कशतर्कवक्रवचनोद्वारेऽपि किं हीयते । यैः
कान्ताकुचमण्डले कररुहाः सानन्दमारोपितास्ते किं मत्त-
करीन्द्रकुम्भशिखरे नारोपणीया शराः ॥ ६० ॥ तर्के
कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलो-
क्तिसारसुरभौ सादेव मे कोमला । या प्रायः प्रियविप्रयु-
क्तवनिताहत्कर्तने कर्तरी प्रेयोलालितयौवंते न मृदुला सा
किं प्रसूनार्वली ॥ ६१ ॥ मातङ्गीमिव माधुरीं ध्वनिविदो
नैव स्पृशन्त्युत्तमा व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न
पश्यन्त्यमी । कस्तूरीघनसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययोर्योगः
कर्णरसायनं सुकृतिनः कस्यापि संजायते ॥ ६२ ॥ यत्सा-
रस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं तल्लब्धुं कविनेव नैव
हठतः पाठप्रतिष्ठाजुषाम् । कासारं दिवस वसन्नपि पयःपूरं
परं पङ्किलं कुर्वाणः कमलाकरस्य लभते किं सौरभं सेरिभः
॥ ६३ ॥ अस्थाने गमिता लय हतधिया वाग्देवता कल्पते
धिक्काराय पराभवाय महते तापाय पापाय वा । स्थाने तु
व्यथिता सता प्रभवति प्रख्या नये भूतये चेतोनिर्वृतये परो-
पकृतये श्रान्ते शिवावासये ॥ ६४ ॥ वल्मीकप्रभवेण राम-
नृपतिर्व्यासेन धर्मात्मजो व्याख्यात किल कालिदासकविना
श्रीविक्रमाङ्को नृपः । भोजश्चित्तपबिल्हणप्रभृतिभिः कर्णोऽपि
विद्यापते ख्यातिं यान्ति नरेश्वराः कविवरैः स्फारैर्न भेरीरवैः
॥ ६५ ॥ येऽप्यासन्निमकुम्भशायितपदा येऽपि श्रियं लेभिरे
येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । तांल्लोको-
ऽयमवैति लोकतिलकान्स्नेहऽप्यजातानिव भ्रातः सकविकृत्य
किं स्तुतिशतैरन्व जगत्त्वा विना ॥ ६६ ॥ मौलौ मन्दार-
दामभ्रमदलिपटलीकाकली श्रोणिबिम्बे कूजत्काञ्चीकलापं
चरणकमलयोर्मञ्जुमञ्जीरशिञ्जाम् । उत्सङ्गे कीरगीतिं स्तनभुवि
मसृणं वल्हकीपञ्चमं वा यत्काव्ये ढत्तकर्णा शिव शिव
मनुते भारती भारमेव ॥ ६७ ॥ कस्याचिद्व्राचि केश्चिन्ननु
यदि विहितं दूषणं दुर्दुढैश्छिन्नं किं नस्तदा स्यात्प्रथित-
गुणवतां काव्यकोटीश्वराणाम् । वाहाश्चेद्रन्धवाहाधिकविहित-
जवाः पञ्चषाश्चान्धखञ्जाः का हानिः शेरशाहक्षितिप-
कुलमणेरश्वकोटीश्वरस्य ॥ ६८ ॥
विशिष्टकविप्रशंसा
अमरसिंहः
प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसक्तौ गाम्भीर्ये
रसवति च काव्यार्थरचने । अगम्यायामन्तर्दिशि परिणता-
र्थवचसोर्मतं चेदस्माकं कविरमरसिंहो विजयते ॥ १ ॥
कालिदासः
कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते पर-
माणौ च पदार्थत्वं प्रतिष्ठितम् ॥ २ ॥ निर्गतामलब्याक्यस्य
कालिदासस्य सूक्तिषु । प्रीतिर्मधुरमार्द्रासु मञ्जरीष्विव
जायते ॥ ३ ॥ कविरमरः कविरचलः कविरभिनन्दश्च
कालिदासश्च । अन्ये कवयः कपयश्चापलमात्रं परं दधति
॥ ४ ॥ वयमपि कवयः कवयः कवयोऽपि च कालि-
१ श्लेषेण ०वनिना वानेकार्थानां संपादनम्, पक्षे,-सुवर्णरूप्यादीनां हरणम्
२ इच्छति
३ उपमालंकारम्, पक्षे,-कङ्कणादिभूषणम्
४ सुरुचिरवर्णानां संचयम्, पक्षे,-हेमसंचयम्
५ शृङ्गारादिरसमिश्रम्, पक्षे,-रसा पृथ्वी तदन्तर्गतम्
६ काव्यदोषाणां गवेषणे तत्परः, पक्षे,-दोषा रात्रिरस्त्या मन्वेषण आसक्तः
७ वसुंधरा पृथ्वी तस्या श्रुतिर्लक्षणाया वल्मीक तत्र भवो वाल्मीकि
८ विरहित
९ युवतिसमूहे
१ कर्पूरः
२ महिषः
३ मृते