सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 47, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 47
३२सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

...श्चिरं सहृदयैर्भृङ्गैरिवास्वाद्यते तत्काव्यं न पुनः भ्रमत्कुमुदै-
र्यत्किंचिदुज्ज्वलितम् ॥ ४७ ॥ निन्द्यन्ते यदि नाम मन्द-
मतिभिर्बकाः कवीनां गिरो रस्तूयन्ते न च नीरसेमृगदृशां
वक्रा कटाक्षच्छटा । तद्दग्धव्यविदा सतामपि मनः किं
नेहते वक्रतां धत्ते किं न हरः किरीटशिखरे वक्रां कला-
मैन्दवीम् ॥ ४८ ॥ सानन्दप्रमदाकटाक्षविशिखैर्यैषां न भिन्नं
मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम् । यैर्दुर्वार-
सरस्वतीविलसितं द्वित्रैः पदैर्गुम्फितं तेषामप्युपरि स्फुरन्ति
मतयः कस्यापि पुण्यात्मनः ॥ ४९ ॥ वाणि त्वत्पदपद्मरेणु-
कणिका या क्षान्तभूमिं सतां सम्प्राप्ता कवितालता परिणता
सैवेयमुज्जृम्भते । त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं
शिरःकम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम् ॥ ५० ॥

नाट्यप्रशंसा

प्रत्यङ्गमङ्कुरितसर्वरसायतारनव्योल्लसत्कुसुमराजिविराजि-
बन्धम् । धर्मेतराशुरिव वक्रतयातिरम्यं नाट्यप्रबन्धमति-
मङ्गलसंविधानम् ॥ १ ॥ देवानामिदमामनन्ति मुनयः कान्तं
क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्न-
रुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ २ ॥

कुकाव्यनिन्दा

किं तेन किल काव्येन मृद्यमानस्य यस्य ताः । उद्गन्धे-
रिव नायान्ति रसामृतपरम्पराः ॥ १ ॥ किं तेन काव्यमधुना-
प्लाविता रसनिर्झरैः । जडात्मानोऽपि नो यस्य भवन्त्यङ्कु-
रितान्तराः ॥ २ ॥ यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो
हृदि मन्मथानलः । तदात्र भूयः किमनर्थपण्डितैः कुकाव्य-
हव्याहुतयो निवेशिताः ॥ ३ ॥ तत्किं काव्यमनल्पपीत-
मधुवत्कुर्यान्न यद्बुद्गतं मात्सर्यावृतचेतसां रसविशादप्युद्देति
लोमसु । कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने
अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम् ॥ ४ ॥ या
साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते
सतां मतिमतां दृष्टिनं सा वास्तवो । या याताः श्रुतिगोचरं
च सहसा हर्षोल्लसत्कंधरास्तिर्यञ्चोऽपि न मुक्तशष्पकवलास्ताः
किं कवीनां गिरः ॥ ५ ॥

सामान्यकविप्रशंसा

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां
यशःकाये जरामरणजं भयम् ॥ १ ॥ प्रस्तावे हेतुयुक्तानि
च पठत्यविशङ्कितः । स कविस्तानि काव्यानि काव्ये तस्य
परिश्रमः ॥ २ ॥ सुकवेः काव्यसौभाग्यं सुकविर्वेत्ति नापरः ।
कलाढवन्न जानाति परः कङ्कणचित्रताम् ॥ ३ ॥ सन्ति
श्वान इवासंख्या जातिभाजो गृहे गृहे । उत्पादका न बहवः
कवयः शरभा इव ॥ ४ ॥ कवयः परितुष्यन्ति नेतरे काव्य-
सूक्तिभिः । न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ॥ ५ ॥
कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि । यत्र हंसवयां-
सीव भुवनानि चतुर्दश ॥ ६ ॥ अपूर्वो भाति भाग्याः
काव्यामृतफले रसः । चर्वणे सर्वसामान्ये स्वादुवित्केवलः
कविः ॥ ७ ॥ उत्फुल्लगलैरालापाः क्रियन्ते दुर्मुखैः सुखम् ।
जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ ८ ॥ ते
धन्यास्ते महात्मानस्तेषां लोके स्थितं यशः । यैर्निबद्धानि
काव्यानि ये वा काव्येषु कीर्तिताः ॥ ९ ॥ अमृतोन्मेक्षणे रागं
कुर्वन्तु गरुडध्वजाः । कविर्गुरुडवन्मान्यमिन्द्रवज्रादिवृत्तकृत्
॥ १० ॥ काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि ।
तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति ॥ ११ ॥ अनन्त-
पदविन्यासरचना सर्गसा कवेः । बुधो यदि समीपस्थो न
कुंजन्मा पुरो यदि ॥ १२ ॥ कविः करोति पद्यानि लालय-
त्युत्तमो जनः । तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम्
॥ १३ ॥ कविः करोति काव्यानि स्वादं जानन्ति पण्डिताः ।
सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ॥ १४ ॥ कविः
पिता पोषयति पालको रसिकः पतिः । कवितायुवतेर्नूनं
सोदरास्तु विवेकिनः ॥ १५ ॥ तत्त्वं किमपि काव्यानां
जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधु-
व्रतम् ॥ १६ ॥ साध्वीव भारती भाति सूक्तिसद्भूतचारिणी ।
आगम्यार्थवस्तुसंसर्गाद्वहिराज्ञा महाकवेः ॥ १७ ॥ कतिपय-
निमेषवर्तिनि जन्मजरामरणविह्वले जगति । कल्पान्तकोटि-
बन्धुः स्फुरति कवीनां यशःप्रसरः ॥ १८ ॥ कविवाक्या-
मृततीर्थस्नानैनैः पूता भृशं यशोदेहाः । येषां त एव भूपा
जीवन्ति मृता वृथैवान्ये ॥ १९ ॥ काव्यप्रपञ्चेपुच्छू रचयति
काव्यं न सारविद्भवति । तरवः फलानि सुवते विन्दति सारं
पतङ्गसमुदायः ॥ २० ॥ विगुणोऽपि काव्यबन्धः साधूना-
मानने गतः स्वदते । फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं
हरति ॥ २१ ॥ विद्वत्कवयः कवयः केवलकवयस्तु केवलं
कपयः । कुलजा या सा जाया केवलजाया तु केवलं माया


पादटिप्पण्यः (Footnotes):

  • १ रोमहर्षम् २ कीर्तिशरीरे
  • १ स्वर्णकार २ समुद्र ३ अनेकपदानि, पक्षे,-विष्णुपदम्. आकाशमित्यर्थ ४ ब्रह्माण्डादिरससहिता, पक्षे,-वृष्टिप्रदा ५ कवयितु, पक्षे,-शुक्रस्य ६ पण्डित, पक्षे बुधग्रह ७ नास, पक्षे,-कु पृथ्वी तस्या जन्म यस्य मङ्गल इत्यर्थ ८ सान्निध्यम् ९ कीर्तिप्रकाश १० वित्त, निपुण. ११ सुवेणुभि