सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 412, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 412

सुभाषितरत्नखण्डमञ्जूषा ३


असंभोगो जरा स्त्रीणाम् ।
असता सङ्गदोषेण साधवो यान्ति विक्रियाम् ।
असाध्यं सत्यसाध्वीना किमस्ति हि जगत्त्रये । (क० स०)
असाध्यं साधयत्यर्थं हेलयाभिमुखो विधिः । (क० स०)
असारे दग्धसंसारे सार सारङ्गलोचनाः ।
असारोऽस्मिन्भवे तावद्भावा पर्यन्तनीरसा । (क० स०)
असिद्धार्था निवर्तन्ते न हि धीरा कृतोद्यमा । (क० स०)
असिद्धेस्तु हता विद्या ।
अस्थाने पतिता सतीव महतामेतादृशी स्याद्गति ।
अस्थिर जीवित लोके । (हि०)
अस्थिराः पुत्रदाराश्च । (हि०)
अस्थिरे धनयौवने । (हि०)
अस्वर्ग्यं लोकविद्विष्टम् ।
अहह कलिकाल प्रभवति ।
अहह कष्टमपण्डितता विधे । (भर्तृ०)
अहह महता निःसीमानश्चरित्रविभूतयः । (भर्तृ०)
अहितो देहजो व्याधि ।
अहो अतीव भोगाशा कं नाम न विडम्बयेत् । (क० स०)
अहो चित्राकारा नियतिरिब नीतिर्नयविद् ।
अहो दुरन्ता बलवद्विरोधिता । (कि० अ०)
अहो दैवाभिशस्ताना प्राप्तोऽप्यर्थं पलायते । (क० स०)
अहो नवनवाश्चर्येनिर्माणे रसिको विधिः । (क० स०)
अहो रूपमहो ध्वनिः । (हि०)
अहो विधेरचिन्त्यैव गतिरद्भुतकर्मणाम् । (क० स०)
अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । (क० स०)
अहो विनेन्द्रजालेन स्त्रीणा चेष्टा न विद्यते । (क० स०)
अहो विश्वास्य वञ्च्यन्ते धूर्तैश्छद्मभिरीश्वरा । (क० स०)
अहो सहन्ते बत नो परोदयम् ।
आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ।
आकरः स्वपरभूरिकथाना प्रायशो हि सुहृदो. सहवास. (नै० च०)
आकृष्ट. कामलोभाभ्यामपाय. को हि पश्यति। (क० स०)
आचार प्रथमो धर्म. । (म० स्मृ०)
आज्ञा गुरूणा ह्यविचारणीया । (र० व०)
आत्मबुद्धि. सुखायैव ।
आत्मार्थे पृथिवी त्यजेत् । (प० त०)
आत्मेश्वराणा नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति । (कु० स०)
आदानं हि विसर्गाय सता वारिमुचामिव । (र० व०)
आदावसत्यवचन पश्चाज्जाता हि कुत्स्यिय. । (क० स०)
आदौ साम प्रयोक्तव्यम् । (प० त०)
आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः । (क० स०)
आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् । (प० त०)
आपत्सु धीरान्पुरुषान्व्स्वयमायान्ति सम्पद । (क० स०)


आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । (प० त०)
आपदि येनापकृतं येन च हसित दशासु विषमेषु । (प० त०)
आपदि स्फुरति प्रज्ञा यस्य धीर स एव हि । (क० स०)
आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् । (कि० अ०)
आपद्यपि त्याज्य न सत्त्व संपदेषिभि । (क० स०)
आपद्यपि सतीवृत्त कि मुञ्चन्ति कुलस्त्रिय. । (क० स०)
आपन्नत्राणविकले किं प्राणै. पौरुषेण वा । (क० स०)
आपन्नस्य विषयवासिन आर्तिहरेण राज्ञा भवितव्यम् । (अ० शा०)
आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् । (मे० दू०)
आपो वहन्तीह हि लोकयात्रा यथा न भूतानि तथापराणि । (नै० च०)
आमुखापाति कल्याणं कार्यसिद्धिं हि शसति । (क० स०)
आये दु खं व्यये दु ख धिगर्था. कष्टसश्रया । (प० त०)
आरब्धा ह्यसमाप्तैव कि धीरैस्त्यज्यते क्रिया । (क० स०)
आरब्धे हि सुदुष्करेऽपि महता मध्ये विराम कुत. । (क० स०)
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । (प० त०)
आर्जवं हि कुटिलेषु न नीति । (नै० च०)
आलस्योपहता विद्या । (हि०)
आवेष्टितो महासर्पैश्चन्दन किं विधायते ।
आशाबन्ध कुसुमसदृशं प्रायशो ह्यङ्गनाना सद्य पाति प्रणयि हृदयं विप्रयोगे रुणद्धि । (मे० दू०)
आशु बध्नाति हि प्रेम प्राग्जन्मान्तरसंस्तव. । (क० स०)
आश्वस्तो वेत्ति कुसृतिं प्रभु. को हि स्वमन्त्रिणाम् । (क० स०)
आसुर कुलमनादरणीयम् ।
आहारे व्यवहारे च त्यक्तलज्ज. सुखी भवेत् ।
आहु ससपदी मैत्री ।
आह्वता हि विषयैकतानतां ज्ञानधौतमनस न लिम्पति । (नै० च०)
इच्छादानपरोपकारकरण पात्रानुरूप फलम् ।
इतो भ्रष्टस्ततो भ्रष्ट. ।
इदं च नास्ति न परं च लभ्यते ।
इन्द्रोऽपि लघुता याति स्वयं प्रख्यापितैर्गुणै. । (प० त०)
इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम् । (शि० व०)
इष्टं धर्मेण योजयेत् । (प० त०)
इष्टप्रवासजनितान्यबलाजनस्य दु.खानि नूनमतिमात्रासुदु सहानि । (अ० शा०)
इष्टमूलानि शोकानि ।
इहामुत्र च नारीणां परमा हि गति पतिः । (क० स०)
ईर्ष्या हि विवेकपरिपन्थिनी । (क० स०)