सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 407, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 407

३९२ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्


किंचित्रियं सदा तं कुरुते जनो हि ॥ ५८८ ॥ प्रतीपं
कुप्यमाणो हि नोत्तरेदुत्तरेन्नरः । बाध्यमानोऽनुकूलं तु
नद्योघाद्वधसनावत्था ॥ ५८९ ॥ संप्राप्य पण्डितः कृच्छ्रं
प्रज्ञामेवावगाहते । बालस्तु कृच्छ्रमासाद्य शिलेवाम्भसि
मज्जति ॥ ५९० ॥ प्रणिपातेन हि गुरून्सतोऽनूचानचेष्टितैः ।
कुर्वीताभिमुखान्भूत्यै देवान्सुकृतकर्मणा ॥ ५९१ ॥
समानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाका-
ङ्गेदवमानस्य सर्वदा ॥ ५९२ ॥ प्रसन्नाः कान्तिहारिण्यो
नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो
गृहे स्त्रियः ॥ ५९३ ॥ सर्वौषधीनाममृता प्रधाना सर्वेषु
सौख्येष्बशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु
गात्रेषु शिरः प्रधानम् ॥ ५९४ ॥ राजा राष्ट्रकृतं पापं राज्ञः
पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा
॥ ५९५ ॥ यो नायतूक्तं प्राह रूक्षं प्रियं वा यो वा हतो
न प्रतिहन्ति धैर्यात् । पापं च यो नेच्छति तस्य हन्तुस्तस्नेह
देवाः स्पृहयन्ति नित्यम् ॥ ५९६ ॥ प्रतिक्षणमयं कायः
क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः
सन्विभाव्यते ॥ ५९७ ॥ वित्तं देहि गुणान्वितेषु मति-
मन्नान्यत्र देहि क्वचित्प्रासं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं
सदा । जीवान्स्थावरजङ्गमांश्च सकलान्संजीव्य भूमण्डल
भूयः पश्य तदेव कोटिगुणितं यच्छन्तमम्भोनिधिम् ॥५९८॥
प्रियमनुचितं क्षमापण्यस्त्रीक्षणप्रसुरीश्वरो रमयति यतो
धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः । नृपमपथगं पान्ति प्राणा-
नुपेक्ष्य निजानपि प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी
॥ ५९९ ॥ प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ।
एवं विद्वांनविद्वाश्च ब्राह्मणो दैवतं परम् ॥ ६०० ॥
संसारश्रान्तचित्तानां तिस्रो विश्रान्तिभूमयः । अपत्यं च
कलत्रं च सता संगतिरेव च ॥ ६०१ ॥ वाति गन्धः
सुमनसां प्रतिवातं कथंचन । धर्मजस्तु मनुष्याणां वाति
गन्धः समन्ततः ॥ ६०२ ॥ शयानं चानुशेते हि तिष्ठन्तं
चानुतिष्ठति । अनुधावति धावन्तं कर्म पूर्वकृतं नरम्
॥ ६०३ ॥ विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना
भाव्यम् । ऋजुर्मूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा त्याज्या
॥ ६०४ ॥ यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं शयेत् ।
अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ॥ ६०५ ॥ राजा
वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति
अष्टमो ग्रामकण्टकः ॥ ६०६ ॥ प्राणवद्रक्षयेद्वृत्यान्खकाय-
मिव पोषयेत् । सदैवैकदिवसस्यार्थे यत्र स्याद्रिपुसंगम.
॥ ६०७ ॥ तं शोकवेगाभिहतं व्याधि. स्पृशति दारुणः ।
तस्तात्मा सप्रमुह्येत न शोकात्परमुच्यते ॥६०८॥ सवर्धितोऽपि


भुजंगः पयसा न वश्यस्तत्पालकानपि निहन्ति बलेन सिंहः ।
दुष्ट. परैरुपकृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैर्विधेयः
॥ ६०९ ॥ विद्यार्थी सेवक. पान्थः क्षुधार्तो भयकातरः ।
भाण्डागी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥ ६१० ॥
शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते
वीर्यं मांसान्मांसं प्रवर्धते ॥ ६११ ॥ श्लाघ्यं जन्म
सुरूपता धनिकता नीरोगता प्राज्ञता स्वाचारस्थिरता दया
सुकुलता दाक्षिण्यवद्दारता । आयुष्मद्बहुपुत्रता खवशता
सौजन्यवन्मित्रता श्रीशे भक्तिरती च यस्य स नरः स्यान्मान-
वानन्दवान् ॥ ६१२ ॥ वयसः परिणामेऽपि यः खलः
खल एव स. । सुपक्कमपि माधुर्यं नोपयातीन्द्रवारुणम्
॥ ६१३ ॥ शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलं
क्रिया । प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः
॥ ६१४ ॥ यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ ६१५ ॥
रुजन्ति हि शरीराणि रोगा. शरीरमानसा । सायका इव
तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ ६१६ ॥ भारं स
वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । वस्तुग्रन्थार्थतत्त्वज्ञो
नास्य ग्रन्थागमो वृथा ॥ ६१७ ॥ रम्याणि वीक्ष्य मधुरांश्च
निशम्य शब्दान्पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तर-
सौहृदानि ॥ ६१८ ॥ संतुष्टो भार्यया भर्ता भर्त्रा भार्या
तथैव च । यस्मिन्नेवं कुले नित्यं कल्याणं तत्र वै ध्रुवम्
॥ ६१९ ॥ शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः ।
अग्निभीता च या नारी त्रयः स्वर्ग न यान्ति हि ॥ ६२० ॥
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः । अप्रमत्तो
विनीतात्मा नित्यं भद्राणि पश्यति ॥ ६२१ ॥ रसायन-
विदुश्चैव सप्रयुक्तंरसायना. । दृश्यन्ते जरया भग्ना नगा
नागैरिवोत्तमैः ॥ ६२२ ॥ योऽर्थकामस्य वचनं प्रातिकूल्यान्न
मृष्यते । शृणोति चानुकूलानि द्विषतां वशमेति सः
॥ ६२३ ॥ लक्ष्म्या लक्ष्मीवता लोके विकाशिन्या च किं
तया । बन्धुमिश्च सुहृद्भिश्च विश्रब्धं या न भुज्यते ॥६२४॥
रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । अभावे
ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ ६२५ ॥ लक्ष्मी-
र्धर्मश्च सतां कीर्तिश्चायुष्यवैभवम् । वर्धते दयया नित्यं
राजन्यभूतदयां कुरु ॥ ६२६ ॥ प्रतिदिवसं याति लयं
वसन्तवाताहतेव शिशिरश्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्ब-
भारस्य चिन्ताभि. ॥ ६२७ ॥ रम्या रामा यदि कुलवधू-
स्त्यागभोगाय वित्तं वक्त्रे वाणी सरलकविता केशवे चित्त-
वृत्तिः । सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसा