सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 38, कुल 516 में से
संदर्भ में पढ़ेंदशावताराः
२३
लैलितगमना नोर्या राजन्मनोजनितान्तभा सुरतिसदृशस्ताः
सन्मुख्या भवानपि तनुवे । वनभुवमितो गेहादेको न
गच्छतु मा विनेत्यसकृदुदितः पुत्र. पित्रा जयत्यनघो हरिः
॥ १३२ ॥ देवः पायात्पयसि विमले यामुने मज्जतीना याच-
न्तीनाममुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरुलसवलितै-
रुन्मिषत्पद्मवाणैर्गोपस्त्रीणा नयनकुसुमैरञ्चितः केशवो नः
॥ १३३ ॥ वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मधुव्रत-
पटलीकाकलीकेलिभाजि । आभीराणा मधुरमुरलीनादस-
मोहिताना मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः ॥ १३४ ॥
शिरश्छाया कृष्णः क्षणमकृत राधाचरणयोर्भुजावल्लिच्छाया-
मियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयो-
रप्यनुनयप्रसादौ जीयास्तामपि गुरुममक्ष स्थितवतो. ॥ १३५ ॥
अवेमव्यापारकलनमतुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघट-
नायासमसकृत् । विधीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटाना
निर्माणं पतंगपतिकेतोरवतु नः ॥ १३६ ॥ कपोले पत्रार्ली पुल-
किनि विधातु व्यवसितः स्वय श्रीराधाया. करकलितवर्तिम-
धुरिपुः । अभूद्रत्कन्दो यन्निहितनयन. कम्पितभुजस्तदेतत्सा-
मर्थ्य तदभिनवरूपस्य जयति ॥ १३७॥ जयश्रीविन्वैस्तैर्महिते
इव मन्दारकुसुमैः स्वय सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिनः प्रकीर्णासृग्विन्दुर्ज॑यति
भुजदण्डो मुरजितः ॥ १३८ ॥ सुपर्णः खर्णाद्रौ रचितम-
णिशृङ्गे जलधिजामुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः ।
त्रिलोकीकस्तूरीतिलककमनीयो व्रजवधूविहारी श्रीकृष्णो
दिशतु भवता शर्म सततम् ॥ १३९ ॥ क यासि खलु
चौरिके प्रमुषित स्फुट दृश्यते द्वितीयमिह मामक वहसि
कन्दुक कञ्चुके । त्यजेति नवगोपिकाकुचयुगं प्रमश्नन्बलाल्ल-
सत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १४० ॥ मेघैर्मे-
दुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव
तदिमं राधे गृहं प्रापय । इत्थ नन्दनिदेशतश्चलितयोः
प्रत्यध्वकुञ्जद्रुम राधामधवयोर्जयन्ति यमुनाकूले रहःकेलयः
॥ १४१ ॥ कौन्तेयस्य सहायता करुणया गत्वा विनीता-
त्मनो येनोल्लङ्घितसत्पथ. कुरुपतिश्चक्रे कृतान्तातिथिः ।
त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा सपदे साधूनामसु-
राधिनाथमथनः स्ताद्देवकीनन्दनः ॥ १४२ ॥ आताम्रे नयने
स्फुरन्कुचभरः श्वासो न विश्राम्यति खेदाम्भःकणदन्तुर
तव मुख हेतुस्तु नो लक्ष्यते । धिक्को वेद मनः स्त्रिया
इति गिरा रुष्टा प्रिया भीषयंस्तस्मात्तत्क्षणकातरेक्षणपरिस्पृष्टो
हरिः पातु वः ॥ १४३ ॥ ससक्ता निव पातुमौपनिषदव्या-
हारमाध्वीरसामुन्मार्गु व्रजसुन्दरीकुचतटीपाटीररेणूनिव ।
उन्मीलन्मुरलीनिनादबहुलामोदोपसीदद्गवीजिह्वालीढमलीक-
बल्लवशिशोः पादाम्बुज पातु वः ॥ १४४ ॥ कृष्णो गोरस-
चौर्यमम्ब कुरुते किं कृष्ण मातः सुरापानं न प्रकरोमि राम
किमिदं नाहं परखीरतः । किं गोविन्द वदत्यसौ हलधरो
मिथ्येति ता व्याहरन्गोपीगोपकदम्बक विहसयन्मुग्धो मुकु
न्दोऽवतु ॥ १४५ ॥ मातस्तूर्णकरक्षणाय यमुना कच्छं
न गच्छाम्यह कसाद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन
गोपीजनः । भ्रूसज्ञांनिवारितोऽपि बहुशो जल्पन्पशो-
दायतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः
॥ १४६ ॥ कासि त्वं वद चौर्यकारिणि कुतः कस्तव
पुरो यामिकः किं ब्रूषे सुषितौ सुवर्णकलशौ भूपस्य केन
त्वया । कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यता-
मित्युक्ते धृतवल्लवीकुचयुगस्त्वत्वा पातु पीताम्बरः ॥ १४७ ॥
कृष्ण त्वं पठ किं पठामि ननु रे शास्त्र किमु ज्ञायते तत्त्वं
कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् । ज्ञानं
भक्तिरथो विरक्तिरनया कि मुक्तिरेवास्तु ते दध्यादीनि
मजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ १४८ ॥ कृष्ण
त्व नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कसो भूपति-
रब्जनालमृदुलग्रीवा वय गोदुहः । तद्याचेऽञ्जलिना भवन्त-
मधुना वृन्दावन मङ्गिना मा यासीरिति नन्दगोपवचसा
नम्रो हरिः पातु वः ॥ १४९ ॥ कस्त्वं कृष्णमवेहि मां
किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे
न्यस्तः किमर्थं करः । कर्तुं तत्र पिपीलिकापनयनं सुप्ताः
किमुद्बोधिता बाला वत्सगर्ति विवेक्तुमिति सजलपन्हरिः पातु
वः ॥ १५० ॥ स्वामी मुग्धतरो वन घनमिदं बालाहमेका-
किनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः ।
तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्मेति गोप्या गिरः श्रुत्वा
पादटिप्पणी (Footnotes)
[वाम भाग]
१ गोपीपक्षे,-ललित गमन यासा ता, कृष्णपक्षे ललिते गे गाने मनो यस्य स
२ स्त्रिय, पक्षे,-नास्तार्य्य श्रेष्टो यस्मात्स
३ राजता मनोजेन मदनेन नितान्तात्यन्ता भा कान्तिर्यासा ता, पक्षे,-राजनमनोजनि शोभमानमदनस्तानन्तो म्लानो यस्यास्तादृशी भा यस्य स
४ शोभायमानया रत्या कामपत्न्या सदृश, पक्षे,-सुष्टु रतौ रमणे योग्य
५ सन्ति शोभनानि मुखान्याननानि यासां ता, पक्षे,-सत्सु प्रशस्तेषु केलिचतुरेपु मुख्य
६ स्वच्छे
७ स्नान कुर्वतीनाम्
८ वेमा वस्त्रव्युतिदण्डस्तद्व्यापाररहितम्
९ तुरी तन्तुवायाना यन्त्रविशेष, तत्स्पर्श विना
१० पतगा पक्षिणस्तेषा पतिर्गरुड स केतुर्यस्य तस्य कृष्णस्येत्यर्थ
११ विक्षिप्ते
१२ पूजित.
१३ चित्रित
१४ रक्तविन्दु.
१५ व्याप्तमित्यर्थ
१६ रात्रौ.
[दक्षिण भाग]
१ एकान्तक्रीडा
२ युधिष्ठिरस्य
३ मारित
४ वृषबालः.
५ नगररक्षक