सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 303, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 303

२८८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

निचयं चकोराणाम् ॥ ६ ॥ अनयनपथे प्रिये न व्यथा
यथा दृश्य एव दुष्प्रापे । म्लानेव केवलं निशि तपन-
शिला वासरे ज्वलति ॥ ७ ॥ मा सर्वथैव रक्ता रागं
गुञ्जेव न तु मुखे वहति । वचनपटोस्तव रागः केवलमास्ते
शुकस्येव ॥ ८ ॥ न सवर्णा न च रूपं न सस्क्रिया नैव
सा प्रकृतिः । बाला त्वद्विरहापदि जातापभ्रंशभावेव ॥ ९ ॥
मा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी । मारीव
कितव भवतानुकूलिता पातिताक्षेण ॥ १० ॥ गायति गीते
शंसति वंशे वादयति मा विपञ्चीषु । पाठयति पञ्जरशुकं
तव संदेशाक्षरं रामा ॥ ११ ॥ तव विरहमसहमाना सा
तु प्राणान्विस्रुक्तवती । किंतु तथाविधमङ्गं न सुलभमिति
ते न मुञ्चन्ति ॥ १२ ॥ अभिनवनलिनीकिसलयमृणालवल-
यादि दवदहनराशिः । सुभग कुरङ्गदृशोऽस्या विधिवश-
तस्त्वद्वियोगपविपाते ॥ १३ ॥ त्वद्विरहे विस्तारितरजनौ
जनितेन्दुचन्दनद्वेषे । बिसिनीव माघमासे विना हुताशेन
सा दग्धा ॥ १४ ॥ या दक्षिणा त्वमस्यामदक्षिणो दक्षिण-
स्तदितरस्याम् । जलधिरिव मध्यस्थो न वेलयो सदृश-
माचरसि ॥ १५ ॥ अनुगगवर्तिना तव विरहेणोग्रेण सा
गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ॥ १६ ॥
अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् । भवता-
नन्यगतिः सा विहितावर्तैन तरणिरिव ॥ १७ ॥ कितव
प्रपञ्चिता सा भवता मन्दाक्षमन्दसञ्चारा । बहुदायैरपि संप्रति
पाशकसारोव नायाति ॥ १८ ॥ रुष्टे का परपुष्टे मन्दे का
हन्त मारुते चर्चा । त्वयि गतवति हृदग्रेशे जीवनदा-
ताप जीवनं हरति ॥ १९ ॥ कुशलं तस्या जीवति कुशलं
पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृता न
कथयामि या श्वसिति ॥ २० ॥ उह्वयते नतभ्रूः पक्ष्मनि-
पातोद्धवै पवनैः । इति निर्निमेषमस्या विरहव्यथया
विलोकत वदनम् ॥ २१ ॥ त्वयि दृष्ट एव तस्या निर्वति
मनो मनोभवज्वलितम् । आलोके हि हिमाशोर्विकसति
कुमुदं कुमुदत्याः ॥ २२ ॥ तव विरहे हरिणाक्षी निरीक्ष्य
नवमालिका दलिताम् । हन्त नितान्तामिदानीमा कि
हतजल्पितैरथवा ॥ २३ ॥ स्मरशरशतविधुराया भणामि
सख्याः कृते किमपि । क्षणमिह विश्राम्य सखे निर्दयहृद-
यस्य किं वदाम्यथवा ॥ २४ ॥ तव विरहे मलयमरुद्वा-
नलः शशिरुचोऽपि सोष्माण । हृदयमरुतमपि भिन्ते
नलिनीदलपि निदाघघ्नरिक्थाः ॥ २५ ॥ व्यजनं व्यजनं
जलं जलं घनसारो घनसार इत्यपि । अवरोधगृहेषु सुभ्रुवा
कुररीणामिव कातरो ध्वनिः ॥ २६ ॥ मम रूपकीर्तिमह-
रद्धवि यस्तदनुप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्त-
दय सुतरा क्षिणोति खलु ता मदन ॥ २७ ॥ तव सा
कथासु परिघट्टयति श्रवणं यदङ्गुलिसुखेन मुहु. । घनता ध्रुव
नयति तेन भवद्गुणपूगपूरितमनुसततया ॥ २८ ॥ उपताप्य-
मानमलघूष्णिमभि श्वसितै सितेतरमरोजदृश । द्रवता
न नेतुमधर क्षमते नयनागयल्लिदलरागम. ॥ २९ ॥
दधति स्फुट रतिपतेरिषव शितता यदुत्पलपलाशदृशः । हृदयं
निरन्तरबृहत्कठिन स्तनमण्डलावरणमप्यभिनत् ॥ ३० ॥
कुसुमादपि स्मितदृश सुतरा सुकुमारमङ्गमिति नापरथा ।
अनिश निजैररुण करुण कुसुमेषुरुत्तपति यद्विशिखैः
॥३१॥ विषता निषेवितमपक्रियया समुपैति सर्वमिति सत्य-
मदः । अमृतम्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिम-
रश्मिरुचः ॥ ३२ ॥ उदित प्रिया प्रति सहार्दामति श्रदधीयत
प्रियतमेन वचः । विदितेङ्गिते हि पुर एव जने समुदीरितां
खलु लगन्ति गिरः ॥ ३३ ॥ त्व विनिर्जितमनोभवरूपः
सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्ता
तापयत्यनुशयादिव काम ॥ ३४ ॥ क्षणमपि विरह. पुरा
न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ
रसालशाखा चिगविरहेण विलोक्य पुष्पिताग्राम् ॥ ३५ ॥
सखि दयितमिहानयेति सा मा प्रहितवती कुसुमेषुणामितसा ।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागत विवेद ॥३६॥
चिरमपि कलितान्यपारयन्त्या परिगदितु परिशुष्यता
मुखेन । गणधुण गमितानि सत्सखीना नयनयुगे. सम्मा-
र्दुता मनासि ॥ ३७ ॥ अचकमल मपष्ठवा धरित्री मृदु
सुरभि विरहय्य पुष्पशय्याम् । भृशमग्तिमवाप्य तत्र
चासास्तव सुखशीतसुपेलुमङ्गमन्छा ॥ ३८ ॥ हारावशेषा
ननु कण्ठनाला त्वन्नामशेषा रसना तदीया । लावण्यशेषा
तनुमात्रयष्टिस्त्वद्ध्यानशेष परम् तदायु ॥ ३९ ॥ तस्या
महाविरहवहिशिखाकलापतंते स्थितोऽसि हृदये सततं
प्रियाया. । प्रालेयशीकरममे हृदि सा कृपालो बाला क्षण
वसति नेव खलु त्वदीये ॥ ४० ॥ अङ्गानि मे दहतु कान्त-
वियोगवह्निः सरक्षता प्रियतमो हृदि वर्तते य. । इत्याशया
शशिमुखी गलदश्रुबिन्दुधारामिरुष्णमसिषिञ्चति हृत्प्रदेशम्
॥ ४१ ॥ संकेतकुञ्जभुवि सा शयनोपधानव्यालकृत सुभग
कुण्डलिन न वेद । तक्रण्ठलभघनचन्दनगन्धलुब्धस्तत्रैव
निश्चलमुवाम चिराय सोऽपि ॥ ४२ ॥ राकासुधाकरकरे-
र्नालिनीदलैश्च नीहारहारघनमारुतैः किमेन. । कि वा भयेन
हरिचन्दनपङ्कसेकैर्न त्वा विना मृगदृशः परितापशान्तिः
॥ ४३ ॥ त्वामञ्जनीयति कलासु विलोकयन्नि त्वा शृण्वती
कुवलयीयति कर्णपूरम् । त्वा पूर्णमाविधुमुखी हृदि भाव-
यन्ती वक्षोनिलीननयनीलमणीकरोति ॥ ४४ ॥ अविरल-