सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 691, कुल 723 में से
संदर्भ में पढ़ेंप्रश्नाध्यायः ५८९
द्धान्तं तत्त्वं कथय चेद्यदि तव बुद्धिः क्रान्तिसाम्ये तद्विचारे प्रसृता विस्तृताऽस्ति ॥ तथा
च क्रान्तिसाम्य इत्यनेन तत्काले क्रान्त्योस्तुल्यत्वं वा गणितेन निर्णीतमिति संभवासंभव-
लक्षणं धीवृद्धिदोक्तमयुक्तमिति भावः ॥ ५५ ॥
अथ पातगतैष्यविपर्यासोदाहरणप्रश्नं तत्पक्षदोषरूपमिन्द्रवज्रयाऽऽह- भागोनयुक्त-
मिति । एकभागोनं त्रिभम् । एकोनत्रिंशदंशाधिकराशिद्वयम् । एकभागयुक्तं त्रिभम् । एक-
भागाधिकराशित्रयं चेद्यदि यस्मिन्कालेऽयनांशसंस्कृतौ सूर्यचन्द्रौ । विपातचन्द्रः । केवल-
पातायुतः केवलचन्द्रो धीवृद्धिदे पातस्य द्वादशराशिशुद्धस्य पातत्वेनोक्तः । तत्पक्षे विपाते
चन्द्र इत्येव वक्तुमुचितम् । भागद्वयोनो भगणः । अष्टाविंशतिभागाधिका एकादश राशयः ।।
च समुच्चये ।। तदानीं तत्कालं पाते गतगम्यरूपं वद । यदि त्वं तत्त्वमतिशयेन जानासि ।
अत्र साधितावपक्रमावंशाद्यौ २३ । ५९ । २३ । ५० । सूर्ययुग्मपदस्थचन्द्रयोरधिकन्यून-
त्वाद्वीवृद्धिदपक्षे गतः पातः । अत्र तदुक्तासकृत्साधनप्रकारेण गतकाले पातासंभवः ॥
आचार्यपक्षेणैकादशायनांशे चन्द्रगोलायनसंध्यो २ । २९ । १६ । २ । २९ । १६ । रेत-
न्निमितत्वान्निरयनचन्द्रस्य विंशतिभागाधिकराशिद्वयमितत्वेनौजपदस्थितत्वात्तत्क्रान्तेः । २३ ।
५० । सूर्यक्रान्तितो २३ । ५९ । न्यूनत्वादेष्यः ।। धीवृद्धिदोक्तसकृत्प्रकारेण चैष्यकाले
पातसंभवाच्च ।। यद्यप्यत्र सूर्यापिमादोजपदोद्भूतवादिति धीवृद्धिदोक्तलक्षणेन स्वायनसंधा-
विन्दोरित्याचार्योक्तलक्षणेन च पातासंभवस्तथाऽपि तावत्स मत्त्वमेवेत्यादिना क्रान्त्यन्तर-
कलानां मार्नकखण्डादल्पत्वेन क्रान्तिसाम्याङ्गीकारः ॥ तथा भूतक्रान्तिसाम्यस्याग्रेऽपि
संभवादेष्यत्वमिति ध्येयम् ॥
नन्वत्रापि तदुक्तलक्षणेन गत एव भवत्वित्यतः पूर्वोपसंहारप्रश्नव्याजेन तदु-
त्तरं स्फुटमिन्द्रवज्रयाऽऽह - यातेऽपि पाते इति । गते । एष्यलक्ष्म ।। धीवृद्धिदोक्तै-
ष्यपातलक्षणम् । अपिशब्दात्सर्वत्र यातपाते एष्यलक्षणनियमो नेत्यर्थः ॥ तादृशमुदा-
हरणं तु ॥ गोंशोनयुक्तं त्रिभमर्कचन्द्रौ चेत्सायनांशौ च विपातचन्द्रः । भागद्वयाढ्यं हि
स्वयं तदानीं यातं वद त्वं यदि बोबुधीतीति कल्पितः मुक्तरीत्या । अत्र सायनार्कः २।२१।
सायनचन्द्रः । ३ । १ । सपातचन्द्र । २ । भास्करोक्तोऽयनसंधिः २ । २९ । १९ । अत्र
निरयनचन्द्रस्य द्वयंशोनत्रिभमितत्वेन प्रथमपदान्तर्गतत्वात्तत्स्पष्टक्रान्ते २३ । ५० ।
रर्कक्रान्तितोऽ २३ । ४१ । धिकत्वादतः पातः ॥ लल्लोक्तासकृत्प्रकारेणात्र तत्संभवाच्च ।।
लल्लमते चन्द्रस्य द्वितीयपदस्थत्वेन तत्क्रान्ते २३ । ५० । रर्कक्रान्तितो २३ । ४१ ॥
न्यूनत्वाभावादेष्यः । अत्र तदुक्तासकृत्प्रकारेण तदसंभवाच्चेति । क्वचित्स्थलान्तरे भागोन-
युक्तं त्रिभमिति प्रागुक्तप्रश्ने । गम्ये एष्यपातरूपे । गम्यमेष्यलक्षणं न किंतु पातलक्षणम् ।
अत्र लल्लोक्तपाताधिकारे इदमाश्चर्यरूपम् । हे सांवत्सराचार्य । कालप्रधानशास्त्रतत्त्वज्ञ ।
श्रेष्ठ ॥ यत्संभवासंभववैपरीत्यम् । यस्य क्रान्तिसाम्यरूपपातस्य संभवस्थानेऽसंभवलक्षणम् ।
असंभवस्थाने संभवलक्षणमिति वैपरीत्यम् । नूनं निश्चयेन विचार्य वद ॥ उत्तरं कथय ॥
तथाच पूर्वोक्तप्रश्नविषयेषु लल्लोक्तपातासंभवासंभवगतागतलक्षणानि व्यभिचरन्तीति
महद्दूषणं लल्लोक्तस्येति भावः ॥२९-५७॥