सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 687, कुल 723 में से
संदर्भ में पढ़ेंप्रश्नाध्यायः ५८५
ननु लग्नानयनोत्तरं तद्विकार एवाऽऽश्चर्यो यदेष्टा घटिका विलग्नं कालश्च तत्रौद-
यिकात्सकृच्चेत्युक्तैर्नाक्षत्रघटचङ्गीकारे तात्कालिकाऽर्कप्रसक्त्योक्तदोषाभावः ॥ सावनघ-
ट्यङ्गीकारे तु चेत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकस्तिग्मरश्मेरिति तत्रैवोक्ते-
स्तात्कालिकार्ककरणे दोषाभावाच्च विजातीयनाक्षत्रोदयशोधनमप्यदोषः ॥ कथमन्यथा
चन्द्रचक्रदिवसैक्यमूनितं चन्द्रमासभदिनैर्दिनक्षया इत्याद्युक्तं संगच्छेतेति तत्कालिकार्क-
खण्डनप्रश्नोऽनुचित इति चेन्न ॥
एतत्प्रश्नस्य सावनघटीग्रहणे तात्कालिकार्को नाक्षत्रघटीग्रहणे औदयिकार्क इत्यत्र
युक्तिं वदेति प्रश्ने तात्पर्यपर्यवसानात् । अस्योत्तरं त्रिप्रश्नाध्यायसावनाधिकारे लग्नार्थ-
मिष्टघटिका इत्यादिना प्रागेवोक्तम् ॥
अथ गोलसंबन्धिप्रश्नानामानन्त्यसूचनाथं प्रागुक्तं प्रश्नमनुवदति-पञ्चाङ्गुल्येति ॥
अथ स्पष्टकालसंबन्धेनोक्तेः प्रसङ्गादिष्टदिङ्नियमप्रश्नसूचनार्थं सममण्डलसंबन्धि प्रश्न-
त्रयं क्रमेण पूर्वप्रश्नपूर्वस्थमनुवादेन पूरयति-दिनकरे करिवैरीति ॥
मातंण्डः सममण्डलमिति । मार्तण्डे समेति ॥
अथ पञ्चाङ्गुला गणकेति प्रश्नस्य प्राक्तनं प्रश्नत्रयं पूरयित्वा प्रसङ्गात्तदग्रिमं
प्रश्नचतुष्टयमनुवादेन पूरयति-यत्र क्षितिज्येति ॥
क्रान्तिज्यासमेति ॥
क्रान्तिज्यासमेति ॥
यत्र त्रिवर्गेणेति ॥
अथ प्रसङ्गात्तदधिकारस्थमुक्तप्रश्नातिव्यवहितान्तरं पाश्चात्यं प्रधानभूतमेकायनप्रश्न-
मनुवदति-याम्योदक्समेति ॥४६॥
अथ छायाप्रश्नप्रसङ्गादविशिष्टं त्रिप्रश्नोक्तं पलभाप्रश्नमनुवदति-दृष्ट्वेष्टभा-
मिति ।
नवायमुक्तप्रश्नानामादौ तत्रोक्तेः संनिहितत्वेन याम्योदक्समकोणभा इति प्रश्ना-
नुवादात्पूर्वमनुवाद्य इति वाच्यम् । ग्रन्थे तत्प्रश्नयोस्तथा क्रमाभावात् ॥ छायाद्वयस्यै-
कानयनावगम्यत्वे चात्र छायाद्वयात्पलभाप्रश्नाद्दिनैकानयनप्रश्नं पूर्वमेतत्प्रश्नानुवाद-
स्यानुचितत्वाच्च ॥४७॥
अथोक्तानां त्रिप्रश्नाधिकारप्रश्नानामुत्तराणि तदधिकार एव तत्तत्प्रश्नाग्रे सन्ति
नोत्तरान्तरापेक्षेति सूचनार्थं छायाद्वयं वेति प्रश्नस्योत्तरमनुवदति-भाद्वयस्य भुजयो-
रिति ।
न चोक्तप्रश्नानामेकतमप्रश्नस्योत्तरकथनमावश्यकमित्येतदुत्तरस्यैवानुवादे किं नि-
यामकमिति वाच्यम् । इतरोत्तरानुवादे एतत्प्रश्नेन तदुत्तरासंबन्धप्रतीतेः संगत्यनुपपत्तेः ॥