सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 684, कुल 723 में से
संदर्भ में पढ़ें५८२ गोलाध्याये
भागोनयुक्तं त्रिभ २ । २६ ॥ ३ । १ ॥ मर्कचन्द्रौ
चेत् सायनांशौ च विपातचन्द्रः ।
भागद्वयोनो भगण ११ । २८ स्तदानीं
पातं वद त्वं यदि बोबुधीषि ॥५६॥
यातेऽपि पाते क्वचिदेष्यलक्ष्म गम्ये न गम्यं वद चित्रमत्र ।
यत् संभवासंभववैपरीत्यं सांवत्सराचार्य विचार्य नूनम् ॥५७॥
वा० भा०—एते प्रश्ना व्याख्याता एव ॥२९-५७॥
मरीचिः—अथैवं प्रश्नानामानन्त्यं तद्दशादुत्तराणामपीति स्वबुद्ध्योत्तरं प्रच्छकप्रश्नानां
देयम् । अत्र प्रतिमनुष्यं बुद्धिभेदात्तत्प्रश्नानां वक्तुमशक्यत्वादिति सूचनार्थं सोद्देशप्रश्नं
सविष्ण्वाऽऽह—मित्र मित्र इति ॥
हे मित्र । अनेन सुहृत्प्रश्ने कोपो न विधेय इति सूचितम् । यत्र देशे त्रिनेत्रर्क्षमध्य-
स्थितः ॥ महादेवनक्षत्रमार्द्रा ।। तस्या मध्यभागेऽर्धे स्थितः । मित्रः सूर्यः । सायनाकों
राशिद्वयं विश्वांशा नखकला इति ।। त्रिनेत्रस्य दिशि उदयं प्राप्नोति । तत्र देशे मे ममा-
भिमतामक्षप्रभां कथय ।
ननु मया वक्तुं न शक्यत इत्यत आह—तान्त्रिकेति ।। तन्त्रतत्त्वज्ञ । तथा च ग्रन्थ-
ज्ञस्य तव नाशक्युत्तरमिति भावः ।। ननु ग्रन्थे एतदुत्तराभावात्कथं वक्तुमुत्तरं
शक्यमित्यत आह—दक्ष इति ।। यदि त्वं गोले गोलस्वरूपज्ञाने समर्थोऽसि ।। तथा च
गोलतत्त्वज्ञस्य तव ग्रन्थे एतदुत्तराभावेऽपि कल्पनासामर्थ्यादुत्तरं वक्तुं शक्यमेवेति भावः ॥
अत एवाक्षुब्धमक्रोधमिति क्रियाविशेषणम् । उत्तरदानासमर्थो हि क्रोधं करोतीति भावः ॥
ननु तर्हि विचार्यं वक्तव्यमित्यतः क्रियाविशेषणमाह—क्षिप्रमिति ।। शीघ्रम् ।
अस्योत्तरस्य सुगमत्वादल्पविचारेणोत्तरं शक्यमिति विलम्बो न विधेय इति भावः ।। तथा
च सायनसूर्यज्ञाने त्रिनेत्रस्य दिश्युद्गमं यातीत्यनेन दिग्ज्यातुल्याग्रालाभादग्राज्ञाने
चाक्षभां वदेति प्रश्नस्योत्तरं यद्यग्राकर्णे सायनसूर्योत्पन्नक्रान्तिज्या कोटिस्तदा त्रिज्या-
कर्णे केति लम्बज्या ।। अस्या अक्षज्यालम्बज्याकोटौ पलज्या भुजस्तदा द्वादशकोटौ
को भुज इत्यक्षभेति मन्दैरपि स्वतो ज्ञेयमित्युत्तरसूत्रं प्रकृतम् । अत्राग्राप्रयोजनादि-
ग्ज्यासंबन्धाभावाच्च दिग्ज्योद्देशो व्यर्थोऽपि प्रश्नस्य कठिनाभासनार्थं दिग्ज्यासूच-
नमित्यवधेयम् ।।
यथा दिग्ज्यातुल्याग्रा २४३१ क्रान्तिज्यार्थं सूर्यस्य २ । १३ । २० । भुजज्या
३२९२ । ६ । ४० । क्रान्तिज्या १३३७ । ३७ । ३९ । लम्बज्या १८९१ । ५१ । १८ ।
अक्षज्या २८६९ । १६ अक्षांशाः ५६ । ३६ । २२ । ३० । लम्बांशाः ३३ । २३ ।
३३ । ३० । अक्षभा १८ । १० । ३० ॥ २९ ॥