सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 679, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 679

प्रश्नाध्यायः ५७७
धारानगर्याः भोजराजधानीत्वेनोज्जयिनीनिकटे प्रसिद्धायाः । प्राचि पूर्वभागे । यद्वा
पक्षान्तरे । त्रितयनदिशि । ऐशानीभागे । चो वार्थे । अग्निभागे आग्नेयदिशि । खपरिधि-
योजनषडंशयोजनान्तरे पत्तनं नगरमस्ति । तत्र तस्मिन्नगरे । हे गणक गणनासमर्थ । क्षिप्रं
शीघ्रं पूर्वं प्रकारत्वोक्तेः ॥ कल्पनविलम्बाभावात् । ममाक्षांशान्वद ॥
भूमेर्व्यस्तामित्यस्योदाहरणमाह—क्षितिपरिधितृतीये इति ।। अथानन्तरम् । धारा-
नगर्या भूपरिधियोजनतृतीयांशयोजनान्तरे । तत्र प्राचि । ऐशान्याम् । आग्नेय्यामित्यर्थः ।।
नगरमस्ति । तत्र नगरेऽक्षांशान् शीघ्रं कथय ।
यथा प्रथमोदाहरणे दिग्ज्या पूर्णम् । अपसारयोजनलवाः ६० । एषां दोर्ज्या १९७७
कोटिज्या १७९ (१८) । धारायामक्षभा पञ्चाङ्गुला ।। अ