सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 676, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 676

५७४ गोलाध्याये
चतुर्थ प्रश्न—
दिग्ज्या = २४३१ को १२ से गुणा कर पलकर्ण से भाग देने से १६१५।८।१४ का
का चाप = ३० अंश अक्षांश होते हैं ॥२५, २६, २७॥
अथान्यदुदाहरणम्—
क्षितिपरिधिषडंशे प्राचि धारानगर्या-
स्त्रिनयनदिशि यद्वा पत्तने चाग्निभागे ।
कथय गणक तत्र क्षिप्रमक्षांशकान् मे
क्षितिपरिधितृतीयेऽंशांशके तत्र तत्र ॥ २८ ॥
वा० भा०—धारायामक्षप्रभा ५ । पलकर्णः १३ । अत्रापसारयोजनलवाः
षष्टिः ६० । तद्दोज्र्या २१७७ । कोटिज्या १७१९ । दिग्ज्यायाः प्राच्यामभावः ।
तस्माद्भुजज्या पूर्णमेव । अतः कोटिज्या पलभा ५ गुणा । अक्षकर्ण १३ प्ता ।
फलस्य चापमक्षांशाः । एवं प्राच्यां गतस्याक्षांशाः ११ । ५ । ० । ईशानदिशं
गतस्य दिग्ज्या २४३१ । दोर्ज्या दिग्ज्यागुणा त्रिज्याभक्ता कार्या । कोटिज्या
तु पलभा ५ गुणा द्वादशभक्ता कार्या । तयोर्योगो द्वादशगुणः पलकर्ण १३ हृतः
फलस्य चापमक्षांशाः ४९ । १८ । २४ । ईशान्यं गतस्य । एवमाग्नेयां च २१ ।
५४ । ३४ । अथ त्र्यंशेऽपसारे लवाः ११० । एषां दोर्ज्याकोटिज्ये एते एव
२१७७ । १७१९ । यथोक्तकरणेन जाताः प्राच्यां पलांशाः ११ । ५ । ० । ऐशा-
न्याम् २१ । ५४ । ३४ । आग्नेय्याम् ४९ । १८ । २४ ॥
अत्रोपपत्तिः । गोले खस्वस्तिकादिच्छादिक्चिह्नोपरि दृङ्मण्डलं निवेश्यम् ।
तत्र खस्वस्तिकं स्वस्थानं कल्प्यम् । ततोऽपसारलवाग्र दृङ्मण्डले पुरचिह्नं
कार्यम् । ध्रुवात् पुरचिह्नोपरि नीयमानं वृत्ताकारं सूत्रं यत्र विषुवन्मण्डले
लगति तत्पुरचिह्नयोरन्तरं तस्मिन्पुरे पलांशाः । अथ तज्ज्ञानार्थमुपायः । अपसा-
रयोजनलवानां दोःकोटिज्ये कृते दिग्लवानां च दिग्ज्या । ततोऽनुपातः । यदि
त्रिज्ययामितया दोर्ज्यया दिग्ज्याभुजो लभ्यते तदाऽपसारलवज्यया किमिति । फलं
पुरसममण्डलयोरन्तरं याम्योत्तरं ज्यारूपम् । स भुजः । पुरविषुवद्वृत्तयोर्या-
वदन्तरं तावतैवान्तरेण सर्वत्र विषुवद्वृत्तादुत्तरतोऽन्यत् स्वाहोरात्रवृत्तं निवे-
शनीयम् । तस्य क्षितिजेन सह यत्र संपातस्तत्प्राच्यपरयोरन्तरमग्रा । यत्रोन्मण्डले
लग्नं तत्प्राच्यपरयोरन्तरं पलांशाः क्रान्तिरूपाः । अथ तज्ज्ञानार्थमपसारलवानां
कोटिज्या । स पुरचिह्नानाल्लम्बः शङ्कुः स पलभया गुण्यो द्वादशभक्तो जातं
शङ्कुतलम् । उत्तरगोल उत्तरभुजस्य शङ्कुतलस्य च योगेऽग्रा भवति । तद-
न्यथान्तरे कृते सत्यग्रा । अतो वैपरीत्येन क्रान्तिः । तदर्थमनुपातः । यदि पलकर्णे