सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 661, कुल 723 में से
संदर्भ में पढ़ेंप्रश्नाध्यायः ५५९
त्रिगुणहरेण युतो गुरुदिने ११८४४८१२५। अत्र गुरोरित्यनेन शुक्रस्यापि दिने प्रश्न-
संबन्धो बोध्यः ॥ १७ ॥
नन्वयं प्रश्नः स्फुटकुट्टकसंबंधी न केवलकुट्टकसंबंधीति मन्दाशङ्केत्यतः केवलकु-
ट्टकसंबंधिप्रश्नस्योदाहरणं शार्दूलविक्रीडितेनाऽऽह-लिप्ताधंमिति ।
चन्द्रस्य कलानामधं दशभियुतं चन्द्रस्य विकला भवन्ति तासां कलाविकल्योर्बहुत्वा-
द्वहुवचनम् । अन्तरं त्रिभियुतं चन्द्रस्य भागा भवन्ति । भागानामर्धं चन्द्रस्य राशयो
भवन्ति तेषां राश्यादिविकलान्तावयवानां युतीरैक्थं त्रिशदधिकं शतं सोमवारे यदा कल्पगता-
ज्ञाने दृष्टा ज्ञाता। पुनर्द्वितीयवारं काव्याहनि शुक्रवारे । च समुच्चये । तादृक्पूर्वोक्ता
युतिर्ज्ञाता। हे विद्वन्नुत्तरकल्पक त्वमहर्गणं कथय ।
ननूत्तरकल्पकत्वं कुत इत्यत आह-व्यक्तेत्यादि । व्यक्तं पाटी । अव्यक्तं बीजम् ।
आभ्यां विविक्ता स्पष्टा युक्तिर्यस्य तादृशं गणितं जानासि चेद्यदि । अत्रोत्तरं विलोम-
विधिनाऽनुपातस्थानसंभावितकुट्टकेन चेति व्यक्तमुक्तम् । अव्यक्तमिति तूदाहरणस्पष्ट-
त्वज्ञानार्थम् । नतूत्तरज्ञानार्थं तत् । अन्यथोदाहरणविषयग्रहाज्ञानादुत्तरदानानुपपत्तेः ।
तथा च राश्यादिविकलावयवान्तात्मकनामपूर्वकग्रहज्ञानेऽहर्गणमानयेति प्रश्नफलि-
तार्थः । तत्र चन्द्रोक्तिः प्रश्नोदाहरणार्थमेतादृशभङ्ग्या तदुक्तिश्चातुरीप्रदर्शनार्थं मन्दा-
श्चर्यजनिकेति ।
एवमत्र राश्यादिचन्द्रज्ञानार्थं कलाप्रमाणं यावत्तावत् । १ अस्यार्धं दशयुक्तं विकलाः
या १।२ रु १० । अनयोरन्तरं या १।२ रु २० । त्रियुक्तं भागाः २। या १। रु १४।
एषामर्धं राशयः ४। या १। रु १४ कलादीनामेषां योगः ४। या ९। रु २। खत्री-
न्दुसम इति पक्षौ समच्छेदीकृत्य छेदगमे एकवर्णप्रक्रियया लब्धं यावत्तावन्मानमिदं ५८ ।
कलामानम् ।
अनेनोत्थापनादुदाहरणालापक्रियया ज्ञातश्चन्द्रो राश्यादिकः ११ । २२ । ५८ । ३९ ।
अयं लक्ष्मीदासेनेष्टकर्मणा षष्टिमितेष्टकल्पनादानीतः स्वल्पान्तरात्तदसत् । दशव्यादियो-
जनोक्त्येष्टकर्मासिद्धेः ॥ १८ ॥
अथोत्तरमार्याभ्यामाह-राश्यादेरिति ।
उद्दिष्टग्रहस्योद्दिष्टराश्यादेविकलास्तस्य राशयस्त्रिशद्गुणिता भागैर्युक्तास्ते षष्टधा
गुण्याः कलायोज्याः । ते षष्टिगुणिताः । विकलायोज्या इति क्रियया विकलाः कार्याः ।
दृढकुदिनगुणाः । कल्पसूर्यसावनदिनोद्दिष्टग्रहकल्पभगणैः परस्परं भाजितयोर्ययोरित्याद्यव-
गतापवर्ताङ्केनापवर्तितौ दृढौ स्तः । तादृशकल्पकुदिनैर्गुण्याः । चक्रविकलार्भाद्वदिदशराशि-
विकलाभिः खखषष्टचङ्काकैः । १२९६००० भक्ताः । शेषस्य त्यागे कृते सति । अत्र
त्यागोऽधोवयवकलाग्रहरूपो नतु मार्जनम् । तस्याग्रे प्रयोजनादिति ध्येयम् । लब्धिनिरग्र-
फलमेकसंख्यया युतं भगणशेषं भवति ।