सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 648, कुल 723 में से
संदर्भ में पढ़ें५४६ गोलाध्याये
तेषामैक्यं भूशैलेन्दुखखाभ्रषट्करयुगाष्टाब्ध्यङ्ग ६४८४२६०००१७१ तुल्यं
कृताष्टाष्टिगोब्ध्यादिभि ८६३३७४४९१६८४ गुणितं जातम् ५५९८३४४६८२३२-
३२६४.२०७७९६४ । व्येकचन्द्राहै १६०२९९८९९९९९९ भक्तं लब्धम् ३४९२४-
१९३२३३६ । जातोऽवशेषमितो गतेन्दुद्युगणः १०३०० । अस्मात् प्राग्वदवमानि
१६१ । अवमशेषं च २६७४२६०००००० । सावनाहर्गणश्च १०१३९ । अथ
पृथग्गतेन्दुद्युगणोऽधिमासैर्गुणितो युगेन्दुदिनैर्भक्तो लब्धं गताधिमासाः १० ।
अधिमासशेषं च ३८१००००००००० । लब्धाधिमासैर्दिनीकृतै ३०० रुन इन्दु-
द्युगणः १०३०० । सौराहर्गणो भवति १०००० । अतः कल्पगतम् । सप्तविंशति
२७ वर्षाणि । नव ९ मासाः । दश १० दिनानि ।
अस्योपपत्तिर्बीजगणितेन । एको हरश्चेद्गुणकौ विभिन्नावित्यादिना । कथ-
मस्य विषय इति चेत् । उच्यते । गतसौरदिनेभ्यो यावन्तोऽधिमासा यच्च शेषं
गतचन्द्रदिनेभ्योऽपि तावन्त एव भवन्ति तावदेव चावशेषम् । अवमान्यवमशेषं च
चन्द्रदिनेभ्य एव सिध्यति । अतस्तयोः शेषयोश्च योग उदाहृते युगाधिमासावम-
योगो गुणो युगेन्दुदिनानि हरः । गतेन्दुदिनप्रमाणं यावत्तावत् १ । तद्गुणेन
गुणितं हरेण भक्तम् । तत्र लब्धिप्रमाणं कालकः १ । तद्गुणितं हरं गुणकगुणिता-
द्यावत्तावतो विशोध्य जातं शेषम् । या २६६७५८५०००० का १६०२९९९००००
०० । एतदधिमासावमशेषैक्यम् । यो लब्धः कालकः १ स गताधिमासावमाना-
मैक्यम् । तच्छेषे यदि क्षिप्यते तदा चतुर्णां योगः कृतो भवति । या २६६७५८-
५०००० का १६०२९९८९९९९९९ । अस्य चतुर्णां योगस्योद्दिष्टयोगेन समोकरणे
क्रियमाणेऽधिमासावमयोगो भाज्यः । व्येकेन्दुदिनानि हरः । उद्दिष्टयोग ऋणक्षेपः ।
एवं सति लाघवार्थं रूपशुद्धावाचार्येण स्थिरः कुट्टकः कृतः । स च कृताष्टा-
ष्टीत्यादि ॥१२॥
मरीचिः—नन्विदमानयनं सौरार्यभट्ठादिपक्षसिद्धतद्युतिग्रहणे व्यभिचरत्यतो मन्दा-
वबोधैकतदुदाहरणप्रदर्शनच्छलेन भुजंगप्रयातेन तन्निरस्यति—नगाङ्गाभ्रेति ।
यदा यस्मिन्कालेऽधिमासादिप्रागुक्तचतुर्णामैक्यं सप्तरसखाभ्रशराब्धिशक्राक्षतत्त्वार्कसमं
ब्रह्मपक्षे जायते । तदानीम् । तस्मिन्काले हे कुट्टकज्ञ । एतेन प्रश्नश्लोके संश्लिष्ट-
स्फुटकुट्टकादिविदारणोक्त्योत्तरं केवलाव्यक्तरीत्याऽस्तीति कस्यचित्प्रतिभानं निरस्तम् ।
अन्यथा संश्लिष्टस्फुटेत्यस्यानुपपत्तेः । दिनैः सौरचान्द्रसावनदिवसैः । प्रक्रियां सूर्यस्य
क्रियाम् । गतदिनात्मकसूर्यक्रियारूपकालोपाधिम् । दिनगणानिति यावत् । प्रचक्ष्व वद ।
ब्रह्मपक्ष इत्यनेन सौरार्यपक्षसिद्धयुतेरेतदानयनेनासिद्धिरस्यानयनस्य ब्रह्मपक्षसिद्धकल्पो-
क्ताधिमासावमचान्द्रदिनेभ्य उपपत्तौ सिद्धत्वादतोऽस्मिन्नानयने ब्रह्मपक्षेतरपक्षाणामलक्ष्य-
त्वान्न व्यभिचारः । तत्पक्षयुतौ तु तत्तत्पक्षे आनयनं कार्यमुक्तनयनरीत्येति ध्येयम् ।
उदाहरणोत्तरं च धूलीकर्मणा सुज्ञेयम् ॥१२॥