सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 641, कुल 723 में से
संदर्भ में पढ़ेंप्रश्नाध्यायः ५३९
उच्यते । गुणयोगे गुणे कल्पिते सति फलप्रमाणं कालकः कल्पेत तर्हि त्वदुक्तयुक्त्या
क्वचित्पूर्वफलैक्यशेषैक्ययोरन्यथात्वेन साम्यानुपपत्तिः । इह तु फलैक्यप्रमाणमेव कालकः
कल्प्यते । तथा सति हरगुणेऽस्मिन्भाज्यादपनीते शेषैक्यमपि यथावस्थितं स्यान्न हरतष्ट-
मिति नास्ति फलैक्यशेषैक्ययोरन्यथात्वं किंतु गुणयोगसंबन्धिनोः फलशेषयोः क्वचिदन्यथात्वं
स्यात्परं तस्यानपेक्षितत्वादन्धथात्वेऽपि न क्षतिरतः साम्यं युक्तियुक्तम् । विस्तरस्तु—
नवभिः सप्तभिः क्षुण्णः को राशिस्त्रिशता हृतः ।
यदग्रैक्यं फलैक्याढ्यं भवेत्षड्विशतेर्मितम् ॥
इत्युदाहरणावसरे बीजटीकायां गुरुतरपितृव्यकृष्णगणकचरणोक्तोऽवधेयः ।
अथ समशोधनेन यावत्तावदुन्मितिरेकैव । का १६०२९९८९९९९९९ रु० उ० पृ १ ।
या २६६७५८५०००० अस्या अन्त्योन्मितौ कुट्टकविधिरित्युक्तत्वात्कुट्टकः कार्यः ।
तत्रोद्दिष्टयुतीनां पृच्छकभेदेन बहुधासंभवात्प्रत्युदाहरणे कुट्टककरणे प्रयासः इति लाघवार्थ-
मुद्दिष्टयुतिस्थाने रूपं क्षेपं प्रकल्प प्रत्युदाहरणे भाज्यभाजकयोरेतन्मितत्वेनाऽऽभ्यां कालक-
यावत्तावदङ्काभ्यां कुट्टकः साध्यते । तत्र
मिथो भजेत्तौ दृढभाज्यहारौ यावद्विभाज्ये भवतीह रूपम् ।
फलान्यधोधस्तदधो निवेश्यः क्षेपस्तथाऽन्ते खम्.... ॥
इत्यनैकविंशतिस्थानात्मिका वल्ली संपन्ना भवति । यथा ५०१०१८१२२
४०११२४२११२६४२१५१० अत्र उपान्तिमेन स्वोर्ध्वं हतेऽन्त्येन युते तदन्त्यं त्यजे-
न्मुहुः स्यादिति राशियुग्ममित्यनेन जातं राशियुग्ममिदं ७३९१९६२४५०८३१५
३०८१४९९९९ ऊर्ध्वो विभाज्येन दृढेन तष्टः फलं गुणः स्यादपरो हरेणेति लब्धि-
गुणावेतावेव ।
एवं तदैवात्र यदा समास्ताः स्युर्लब्धयश्चेद्विषमास्तदानीम् ।
तथागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणाच्छेषमितौ तु तौ स्तः ॥
इत्यनेनात्रैकोनविंशतिस्थाने लब्धानां तत्त्वाल्लब्धिः कालकाङ्काद्व्येककल्पचान्द्रदिनादूना
लब्धिः कृताष्टनृपन्दाब्धि[ युग ]सप्तामररसाष्टमिता ८६३३७४४ ९१६८४ गुणा
यावत्तावदङ्कात्कल्पाधिमासावमयोगादूने जातो गुणश्चन्द्राभ्रखखाभ्ररसाद्रिषड्रामशक्रमितः
१४३६७६०००१ ।
अथोद्दिष्टयुतिक्षेपे गुणाप्त्योः सिद्ध्यर्थं रूपक्षेपे एते गुणाप्ती तदोद्दिष्टक्षेपे के इत्यनु-
पातेन एते उद्दिष्टयुतिगुणे कार्ये । तत्राप्युद्दिष्टयुतौ गुणे गुणाप्तौ स्वतक्षणाभ्यामधिके
भवतः कदाचिदतस्ताभ्यां तष्टे कार्ये । अत एव—
क्षेपं विशुद्धिं परिकल्प्य रूपं पृथक्तयोर्ये गुणकारलब्धी ।
अभीप्सितक्षेपविशुद्धिनिघ्ने स्वहारतष्टे भवतस्तयोस्ते ॥
इति स्थिरकुट्टकसाधनं संगच्छते । तत्राऽऽचार्यैस्ते भाज्यतद्भाजकवर्गमाने