सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 629, कुल 723 में से
संदर्भ में पढ़ेंप्रश्नाध्यायः ५२७
एतद्यद्बहुधाऽस्मदादिजडधीधीवृद्धिलुब्धया बुधै-
र्विद्वच्चक्रचकोरचारुमतिभिः पाटीति तन्निर्मितम् ॥४॥
नैव वर्णात्मकं बीजं न बीजानि पृथक् पृथक् ।
एकमेव मतिर्बीजमनल्पा कल्पना यतः ॥५॥
वा० भा०—स्पष्टार्थम् ॥३॥४॥५॥
मरीचिः—ननु सुबुद्धीनामपि प्रश्नोत्तररीत्यवगमं विनोत्तरकल्पकत्वं न संभवतीति
पूर्वं बालेति किमर्थमुक्तमित्यतोऽनुष्टुभा पूर्वप्रतिज्ञां समर्थयति—अस्ति त्रैराशिकमिति ।
अतः कारणात् । मन्दार्थं प्रश्नोत्तरज्ञाननिमित्तमुत्तरं मयोच्यते । कथ्यते । अतः कुत
इत्यत आह—किमिति । सुबुद्धीनामज्ञातं ज्ञानविषयं किमस्ति येन तदर्थमपि कथनमावश्यकं
स्यात् । अपि तु तेषां ज्ञानाविषयं न किमप्यस्ति । तेषां सर्वज्ञानविषयकल्पकत्वात् ।
अतस्तेषां स्वत एव प्रश्नोत्तरज्ञानसंभवात्तन्निमित्तमुत्तरकथनं व्यर्थमेवेति भावः ।
ननु सुबुद्धीनामुत्तरज्ञानं स्वतः कुतः संभवतीत्यतः पाटीबीजयोरुत्तरसाधकयोः स्वरूप-
माह—अस्तीति । त्रैराशिकम् । प्रमाणमिच्छा च समानजातीत्याद्युक्तं त्रैराशिकगणितम् :
पाटी । अस्ति । वर्तते । मतिर्बुद्धिर्बीजम् । चकारादस्तीत्यर्थः । ननु दोषांशयुक्तया बुद्ध्या
कार्यं न निर्वहतीति साधारण्येन बुद्धिः कथं बीजमुक्तमित्यतो मतिविशेषणमाह—विमलेति ।
विगतो मलो दोषांशो यस्याः सा शुद्धा बुद्धिरित्यर्थः । एतेन कुट्टकादीनामपि बीजत्वेन
ग्रहस्तेषामपि बुद्धिगम्यत्वादिति सूचितम् ।
तथा च सुबुद्धीनां स्वतो विमलबुद्ध्या कल्पनासामर्थ्यात्त्रैराशिकावगमाच्च गणि-
तकल्पनासंभवात्प्रश्नोत्तरज्ञानं संभवतीति भावः । अतो बालावबोधे कतिचिच्च वच्मीति
प्राक्प्रतिज्ञातं नासंगतमिति सिद्धम् ।
केचित्त 'ननु सूर्यादिप्रणीतशास्त्रेषु कथं पाटीबीजगणिते नोक्ते । मनुष्यकृतौ कथं
तत्प्रतिपादनमित्यत आह—किमज्ञातमित्यादि । मयासुरप्रभृतीनां सुबुद्धीनां किं नामाज्ञात-
मस्ति पाटीकुट्टकवर्गप्रकृतिबीजप्रतिपाद्यविषयेषु । अतस्त्वार्यसिद्धान्तेषु तानि न प्रतिपादि-
तानि । तन्मूलोत्तरप्रश्नाप्रतिपादनं च । मनुष्यास्तदपेक्षया मन्दबुद्धयोऽतस्तद्बुद्धिविवृद्धये
पाटीबीजगणिताद्य मुच्यते' इत्याहुः ।
तदसत् । सूर्याद्यार्षसिद्धान्तप्रसङ्गस्याप्रकृतत्वात्प्रतिज्ञातायारेत्राप्रतिपादनाच्च । मनु-
ष्याणां मन्दत्वेनाभ्युपगमात्तदर्थं तत्कथकस्याऽऽर्षकथकं विनाऽप्रसिद्धेश्च । पूर्वार्धोक्तस्वरूपयोः
पाटीबीजयोः सूर्यसिद्धान्तादौ सत्त्वेनोत्तरार्धभासस्यासंगतत्वाच्चेति ॥३॥
ननु परिकर्मविंशतिं यः संकलिताद्यां पृथग्विजानाति ।
अष्टौ च व्यवहारान्छायान्तान्भवति गणकः सः ॥