सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 620, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 620

५१८ गोलाध्याये
नन्वमितार्थलपनेऽपि चमत्काराभावान्न चतुरात्वमित्यतोऽर्थविशेषणमाह—सरसमिति ।
वासनाविशेषवतां सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको भावः पौनःपुन्येन
रत्यादिभिः समं गृहीतकार्यकारणभावसंबन्धैर्विभावादिभिः परिहृतविशेषैः संबन्धविशेष-
स्वीकारपरिहारनियमावसायादसाधारन्येन प्रतीर्त नियतप्रमातृगतत्वेन स्थितोऽपि साधारणो-
पायबलात्साधारण्यमुपगच्छन्विद्वात्मना सहाभिव्यक्तस्तत्कालोल्लसच्चर्यमाणानेकप्राणो विभा-
वादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्र्फुरन्हृदयमिव प्रविशन्सर्वा-
ङ्गीणमिवालिङ्गन्नन्यत्सर्वमेव तिरोदधद्ब्रह्मानन्दसहोदरोऽलौकिकचमत्कारकारी शृङ्गारा-
दिको रस इति काव्यप्रकाशनिरुक्तः । तेन सहितमित्यर्थः । तथा च सरसार्थलपने चमत्कारः
स्वतः सिद्धोऽत एव—
रसोऽभिमानोऽहंकारः शृङ्गार इति गीयते ।
योऽर्थस्तस्यान्वयात्काव्यं कमनीयत्वमश्नुते ॥
इत्युक्तमिति भावः ।
ननु रसिकानां बिना कान्तामन्यन्मनोहरं न भवतीत्यतः संशयालंकारद्योतकं पक्षान्तर-
माह–वेति । अथवा सा कान्ता भारती भरतसंबन्धिनी नर्तकस्त्री कामितार्थं सुरतोत्सव-
निमित्तं कस्य हृदयं न हरत्यपि तु सर्वपुरुषाणां मनो हरति ।
ननु तेषां तदभिलाषे मनोहरं संभवत्यतस्तस्यां तदनभिलाषे मनोहरं कथं
संभवतीत्यत आह–सानुरागेति ।
लज्जां न धत्तेऽभिमुखं च पश्येत्पादेन भूमिं विलिखेत्स्थिता च ।
व्यनक्ति गात्रं कुरुते च हास्यं दृष्ट्वा कटाक्षं नयने विदध्यात् ॥
पृष्टा स्फुटं सस्मितमेव वाक्यं शनैर्व्रजेच्चानुसरेद्व्रजन्तम् ।
विलोक्य तं व्याजकथाप्रसङ्गादुच्चैर्वदेत्स्वं परिदर्शयन्ती ॥
तन्मित्रवर्गे प्रणयं विदध्यादित्यादिवातार्मसकृच्च पृच्छेत् ।
कति स्त्रियोऽस्याऽऽलयगाः सुरूपाः कस्यामयं प्रेम भृशं विधत्ते ॥
मृद्गा(दना)ति दृष्ट्वा स्वकुचं करेण संस्फोटयेदङ्गुलिकाः सुजृम्भम् ।
भूषाविहीना न ददाति तस्मै स्वदर्शनं याचितमप्यजस्रम् ॥
पुष्पादिना हन्ति तथाऽतितारं संकाशयेन्मार्ष्टि भुजं करेण ।
व्याजेन गच्छेत्सदनं कराङ्घ्रिवक्त्रेषु घर्माम्बु वहद्विलोक्य ॥
इत्यादिचिह्नैरनुरागयुक्ता ज्ञेया विदग्धा मृगशावकाक्षी ।
इत्युक्तानुरागयुक्तेत्यर्थः । तथा च—
आभङ्गुराग्रबहुगुणदीर्घा स्वादप्रदा प्रियादृष्टिः ॥
कर्षति मनो मदीयं हृदमीतं बडिशरज्जुरिव ।
क्लेशयसि किमिति दूति यदशक्यं सुमुखि तव कटाक्षेण ॥