सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 599, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 599

ये चूताः । आम्रवृक्षाः । अत्राश्लीलं पान्थाधिकदुःखहेतुत्वान्न दोषः । तेषां नूतनाः ।
अल्पदिनजाः । कोमला इति यावत् । घनाः परस्परं संलग्नाः । स्फारं बहुलाः । स्फुरन्तो
देदीप्यमानाः अरुणवर्णा इत्यर्थः । एतादृशैः पल्लवैः पत्रैः । उद्वेल्लन्त्यः परिवेष्टिताः ।
या नववल्लर्यो नूतनशाखामञ्जर्यस्तासु कोकिलाः पतन्तीत्यर्थः । तथा च वयमाम्रशाखा-
घिरूढा आतपादिदुःखाभावात्तन्नवाङ्कुरभक्षणसंजातमधुरभाषिण्यो भवद्विरहदुःखासहिष्णवो
युष्मान्कृपया पृच्छाम इति भावः ।
ननूत्सवस्वरूपवसन्ते कथमस्माकं युष्माभिर्दुःखसंभावना कृतेत्यत आह—उत्फुल्लन्नि-
त्यादि । उत्फुल्लन्त्यो विकसन्त्यो या नवमल्लिका नूतनमल्लिकापुष्पाणि । नवेत्यनेन
वसन्ते मल्लिका प्रभवतीति स्पष्टमुक्तम् । तासां परिमलाः सुगन्धास्तैर्भ्रान्तं विवेकज्ञान-
शून्यमुन्मत्तमित्यर्थः । एतादृशं भ्रमत् । इतस्ततो गच्छद्भ्रमरं भ्रमरसमूहो यत्र तस्मि-
श्चैत्रोत्सव इत्यर्थः ।
अत्र पूर्वत्र च दीर्घसमासः प्रसादोदारतौजःसमाधिगुणानां सत्त्वान्न दोषः । तथा च
चैत्रोत्सवे नूतनमल्लिकागन्धाहृतभ्रमरान्मल्लिकाप्रियतमासंयोगसुखानुभवान्दृष्ट्वा स्वगृह-
स्थितरमणीसंस्मरणेन भवतां वियोगिनामत्यन्तःदुःखं संभावितम् । संयोग्युत्सवस्वरूपवसन्तस्य
भवत्कृतान्तरूपत्वादिति भावः ।
ननु कोकिला इत्यत्र कोकिलस्त्रियः कथं गृहीताः । उक्तार्थस्य कोकिलपुरुषग्रहणे
बाधकाभावात् । प्रस्तुतनववल्लरीषु कोकिला इत्यत्र स्त्रीपुरुषसंयोगव्यङ्ग्यात्प(भ्यः प)
थिकानामत्यन्तं दुःखयोष(ग) इति चेन्न । पान्थकृतविरहानलव्याकुलानां पथिकस्त्रीणाम-
स्मिन्समये संभावित्वात्यन्तदुःखाभिः स्त्रीत्वसामान्येन कण्ठमाधुर्यतुल्यतया वा तद्दूती-
रूपाभिः पथिकपरावर्तनसंजातसंयोगसुखानुभवार्थमिवैते एवं पृच्छ्यन्ते । भवतां विदेश-
गमनेऽस्मिन्समये भवत्प्रियतमानां जीवनसंदेह इति भवच्चेतः कथमव्यथमिति निर्दयत्वं
सूच्यते ।
अत एव चैत्रोत्सवविशेषणं भ्रामरे इत्यमङ्गलं न दोषः । नहि स्त्रीणां दूताः पुरुषाः
संभवन्ति । तासाम्—
पदन्यासो गेहाद्बहिरहिफणारोपणसमो
वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः ।
निजावासादन्यद्भवनमपरद्वीपतुलितं
पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः ।
इति स्वरूपात् । अत्रानुप्रासः शब्दालंकार इति संक्षेपः ॥१॥
ननु तादृशभ्रमरदर्शनेन स्वरमणीसंस्मरणं कुतो भ्रमरस्य रमणत्वसंभवेऽपि मल्लि-
कायाः कान्तात्वासंभवादित्यतो द्रुतविलम्बितवृत्तेनोत्फुल्लनवमलिकामुत्प्रेक्षते—स्वकुसुमैर्म-
लिनाभिवेति ।
३२