सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 584, कुल 723 में से
संदर्भ में पढ़ें४८२ गोलाध्याये
अत्रैव त्वमवस्थितो यदि बदस्यस्यान्तरं चोच्छ्रयं
त्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजेन मन्ये भुवि ॥४९॥
उदाहरणम्—
दृष्टा चेत् त्र्यङ्गुला कोटिर्बाहुश्च चतुरङ्गुलः ।
ऊर्ध्वस्थेनोपविष्टेन बाहुरेकादशाङ्गुलः ॥
कोटिरष्टाङ्गुला तोये वंशाग्रं विध्यता सखे ।
त्र्येकहस्तौ दृगुच्छ्रायौ वंशौच्च्यं चान्तरं वद ॥
वा० भा०—ऊर्ध्ववेधे कोटिः ३ । भुजः ४ । उपविष्टवेधे कोटिः ८ । भुजः
११ । दृष्ट्युच्छ्रायौ क्रमेण । ७२ । २४ लब्धमात्मवंशान्तरं हस्ताः ८८ । वंशौच्च्यं
हस्ताः ६३ । अत्रोर्ध्ववेधेऽन्योपविष्टवेधे वाप्या यष्टिरिति ।
अत्रोपपत्तिः । अत्र भित्तेः सुसमे पार्श्वे तिर्यग्रेखा दीर्घा कार्या । सा किल
जलसमा भूः । तत्रैकस्मिन्नेकान्तप्रदेश ऊर्ध्वरेखा कार्या । स किल वंशः । वंशमूला-
दधोगामिनी वंशप्रमाणैवान्या रेखा कार्या तत् किल वंशप्रतिबिम्बम् । अथ
भूरेखाया उपर्यन्यप्रान्ते दृगुच्छ्रिताऽन्या रेखा कार्या । दृगुच्छ्रायात् प्रतिबिम्बवंशा-
ग्रगामिनी कर्णरेखा कार्या । सा कर्णरेखा भूरेखायां यत्र लग्ना तत्रस्थे जले
वंशाग्रं द्रष्टा पश्यति । जलादुभयतो द्वे त्र्यस्रे भवतः । तत्र जलवंशमूलयोरन्तरं
बाहुः । प्रतिबिम्बवंशः कोटिः । अधः कर्णखण्डं कर्णः । अन्यदात्मजलान्तरं बाहुः ।
दृष्ट्युच्छ्रायः कोटिः । ऊर्ध्वकर्णखण्डं कर्णः । एते त्र्यस्रे परस्परानमते । यष्टि-
वेधेन ये भुजकोटी ते अप्येतदनुसारे । अत उक्तं एवं तोयेऽपीति । किन्त्वत्र यदौच्च्य-
मागच्छति तद्दृगोच्छ्येन हीनं कार्यम् । प्रतिबिम्बितस्याधोमुखत्वादृद्गोच्छ्येन
सहाऽऽगच्छति । अतस्तदूनं कृतमिति सर्वमुपपन्नम् ॥४८॥४९॥
किम्वा यष्टेचेत्यस्योदाहरणम्—
षडङ्कैरमरैस्तुल्यान्यङ्गुलान्यथवा क्रमात् ।
आत्मतोयान्तरं दृष्ट्वा वंशौच्च्यं चान्तरं वद ॥
वा० भा०—ऊर्ध्वस्थस्य जलान्तरम् ९६ । उपविष्टस्य जलान्तरम् ३३ ।
दृष्ट्युच्छ्रायौ ७२ । २४ । लब्धं तदेव भूमानं हस्ताः ८८ । वंशौच्च्यं हस्ताः ६६ ।
इति धीयन्त्रम् ॥
मरीचिः—अथ जलस्थप्रतिबिम्बाद्वस्तुदैर्ध्यमानज्ञानमुद्गीत्याऽऽह—एवं तोयेऽपीति ।
तोये जले । अपिशब्दात्प्रतिबिम्बिताग्रात्प्रतिबिम्बितस्य । औच्च्यं वंशोच्छ्रायो नतु वंशमा-
नम् । एवमग्रं विद्ध्वोर्ध्वस्थ इत्यादिना ज्ञेयम् ।