सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 576, कुल 723 में से
संदर्भ में पढ़ें४७४ गोलाध्याये
[चित्रम्: ध्रु, यष्टिमूल, भू, भुं, यष्ट्यग्र सेलम्ब मूल, यष्टिमूल सेलम्ब मूल, अन्तर भूमि]
इदानीं वंशादिवेधमाह—
विद्ध्वैवं वंशतलं दृष्ट्युच्छ्रायाहताद्बाहोः ॥४३॥
कोट्या लब्धं ज्ञेयं स्ववंशमध्ये महीमानम् ।
विद्ध्वाऽथो वंशाग्रं भूमानं कोटिसंगुणं भक्तम् ॥४४॥
दोष्णा वंशोच्छ्रायो दृष्ट्युच्छ्रायेण संयुतो ज्ञेयः ।
उदाहरणम्—
पञ्चशक्राङ्गुला १४५ यष्टिरष्टषष्टिर्दृगुच्छ्रायः ।
षट् करास्तलवेधो दोः कोटिः सप्तदशाङ्गुला ॥
अग्रवेधे रसेशा ११६ दोः कोटिस्तुरगकुञ्जराः ८७।
वंशस्य यस्य तन्मानं चाऽऽत्मवंशान्तरं वद ।
वा० भा०—यष्टिः १४५ । दृगुच्छ्रायः ६८ । तलवेधे बाहुः १४४ । कोटिः
१७ । अग्रवेधे बाहुः ११६ । कोटिः ८७ । अत्र तलवेधेऽग्रवेधे वा ध्रुववद्यष्ट्यग्र-
मूललम्बयोरन्तरभूर्भुजः । एवं यथोक्तकरणेन लब्धमात्मवंशान्तरम् ५७६ ।
वंशोच्चयम् ५०० ।
अत्रोपपत्तिः । आत्मवंशान्तरभूमिर्भुजः । दृष्ट्युच्छ्रायः कोटिः । दृष्टिवंशमूल-
योर्बद्धं सूत्रं कर्णः । एतत्त्र्यस्रानुसारमेव यष्ट्या बेधेन त्र्यस्रमुत्पद्यते । तच्च