सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 562, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 562

योर्यावदन्तरं शङ्कुतलयोरपि तावदेवान्तरं भवति । 'तच्छङ्कुतलं कल्पितम् २ ।
कस्य । शङ्कूच्छ्रयान्तरतुल्यस्य शङ्कोः ६ । यद्यस्य शङ्कोरिदं शङ्कुतलं तदा
द्वादशाङ्गुलस्य किमिति । फलं पलभा ४ ।
अथवा पलभाप्रमाणं या १ । यदि द्वादशाङ्गुलस्य शङ्कोः पलभा शङ्-
कुतलं तदा त्रिंशदङ्गुलस्य षट्त्रिंशदङ्गुलस्य वा किमिति १२ । या १ ।
३० ।। १२ । या १ । ३६ । एवं ज्ञाते शङ्कुतले पृथक् पृथक् या ३० ।
१२
या ३६ । एते स्वस्वयाभ्यभुजाभ्यां रहिते जाते उत्तरे अग्रे या ३० रू ६० । या
१२ १२
३६ रू ८४ । अनयोरग्रयोः समीकरणे छेदगमे च क्रियमाण इयं क्रियोपपद्यते ।
१२
मरीचिः-अथ ज्ञाताग्रायाः शुद्धयर्थं पलभाज्ञानं प्रकारान्तरेण पलभाज्ञानं च वक्ष्य-
माणां प्रतिज्ञां च शिष्यावधानार्थमाद्यद्वयेनाऽऽह-शङ्कूदयास्तेति ।
अभीष्टकाले यत्र शङ्कुमूलं पूर्वोक्तप्रकारेण दिनगतशेषक्रमेण सूर्योदयकालिकां सूर्यास्त-
कालिकां वा ज्ञाताग्रां त्रिज्यावृत्ते पूर्वापरचिह्नाभ्यामुक्तरीत्या दत्त्वा तदग्रयोः सक्तं रेखा-
सूत्रमुदयास्तसूत्रम् । तयोर्याम्योत्तरमङ्गुलात्मकं यन्मितमन्तरं द्वादशगुणम् । अभीष्टकालि-
कावलम्बरूपशङ्कुमानेन भक्तं फलं तद्देशे पलभा । अस्या अक्षकर्णं प्रसाध्यानुपातानीता-
ग्रासमत्वेन ज्ञाताग्रायाः शुद्धिर्वधेयेति भावः ।
ननुदयास्तकाले व्यवधानादिना वृत्तेऽर्कसंस्थानज्ञानाभावादुक्तरीत्या पुनः कालसाधनम-
शक्यमित्यतोऽग्राज्ञानार्थं पलभाज्ञानमाह-भुजयोरिति । कस्मिंश्चिद्दिवसेऽभीष्टकालद्वय-
संबन्धिभुजौ ज्ञेयौ । तयोर्भिन्नदिशयोः क्रमेणान्तरमैक्यं वा द्वादशगुणम् । भुजद्वयसंबन्धि-
कालद्वयज्ञातालम्बरूपशङ्क्वोरन्तरेण भक्तं पलभा स्यात्तस्या अनुपातेन क्रान्तिज्यातोऽग्रा-
ज्ञानं स्यादेवेति कालसाधनं नाशक्यमिति भावः ।
नन्वस्य पलभाज्ञानप्रकारस्य भुजाधीनस्य भुजाज्ञानात्कथं संभव इत्यत आह-प्राग-
पराशानरान्तरमिति । पूर्वापरसूत्रावलम्बरूपशङ्क्वोर्र्याम्योत्तरं स भुजः । तथा च वृत्ते
दिगङ्कनात्पूर्वापरसूत्रज्ञानान्नष्टच्छायायष्ट्यग्रावलम्बरूपशङ्कुमूलज्ञानाच्च । तयोर्याम्योत्त-
रान्तरप्रदेशस्य भुजत्वावगमादुक्तरीत्या कालद्वये भुजं शङ्कुं च ज्ञात्वोक्तप्रकारेण
पलभाज्ञानसंभव इति भावः ।
अथ तथाऽपि वृत्ते दिक्साधनस्य भुजाज्ञानादसम्भवादन्योन्याश्रयदोषाइभुजाज्ञानमिति
पलभाज्ञानस्योक्तप्रकारेणासंभव इत्यस्वरसात्प्रकारान्तरं विवक्षुस्तावत्तत्प्रतिजानीते-
यष्ट्येति । नष्टच्छा[य]या यष्ट्या कस्मिंश्चिद्दिवसे । शङ्कुत्रितयम् । भिन्नभिन्नाभीष्टकाल-
त्रितयेऽवलम्बरूपं शङ्कुं प्रत्येकमेवं शङ्कुत्रितयमित्यर्थः । एककाले तत्त्रितयासम्भवात् ।