सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 557, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 557

यन्त्राध्यायः ४५५
त्रि² × ३०
यदि द्यु = प द्यु तो ──────── = परमाल्प यष्टि ।
ज्यालं × द्यु
त्रि² × ३० त्रि² × ३०
────────── = ────────── = ज्या लं । परमाल्पयष्टि = ६०
ज्यालं × द्यु ६० × प-द्यु
त्रि² ज्या² ४५
─────── = ज्यालं = ─────── = ज्या ल
२ × पद्यु पद्यु
क्योंकि त्रिज्यावर्गार्धपदं शरवेदांशकज्या भवति
/ त्रि²
अर्थात् √ ─── = ४५° की ज्या होती है ।
\ २
अर्थात् ६६ अंशांशीय भूपृष्ठीय देशों की सीमा तक में उक्त फलक यन्त्र से काल-
ज्ञान समीचीन होगा । आगे सदोष बताया गया है। ६६° अक्षांश से अधिक अक्षांशीय
देशो में उक्त फलक यन्त्र त्रुटि पूर्ण हो सकता है ।।२७।।
अथ यष्टियन्त्रमाह—
त्रिज्याविष्कम्भार्धं वृत्तं कृत्वा दिगङ्कितं तत्र ।
दत्त्वाऽग्रां प्राक् पश्चाद्द्युज्यावृत्तं च तन्मध्ये ।।२८।।
तत्परिधौ षष्ट्यङ्कं यष्टिनेष्टद्युतिस्ततः केन्द्रे ।
त्रिज्याङ्गुला निधेया यष्ट्यग्रान्तरं यावत् ।।२९।।
तावत्या मौर्व्या यद्द्वितीयवृत्ते धनुर्भवेत्तत्र ।
दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणैवम् ।।३०।।
वा०भा०--समायां भूमौ त्रिज्यामिताङ्गुलेन कर्कटेन वृत्तं दिगङ्कितं च
कृत्वा तत्र प्राक् पश्चादग्रा गोलवशादुत्तरा दक्षिणा वा ज्यार्धवद्देया । अग्राग्रयो-
र्बद्धं सूत्रमुदयास्तसूत्रमुच्यते । अथ तस्यैव वृत्तस्य मध्ये द्युज्यामितेन कर्कटेनान्यद्-
वृत्तं कृत्वा नाडीषष्ट्याऽङ्कनीयम् । ततस्त्रिज्यामिताङ्गुलाया ऋजुयष्टेर्मूलं
केन्द्रे लग्नं कृत्वाऽग्रमर्काभिमुखं तथा धार्यं यथा यष्टिर्नष्टच्छाया स्यात् । ततः
प्राच्यां दिशि त्रिज्यावृत्ते यदग्राग्रचिह्नं तस्य यष्ट्यग्रस्य च मध्यमृजुशलाकया
मित्वा सा शलाका द्युज्यावृत्ते जीवावद्देया न ज्यार्धवत् । ततः शलाकाग्रयोर्मध्ये
धनुषि यावत्यो घटिकास्तावत्यस्तदा दिनगता ज्ञेयाः । एवं पश्चिमाग्राग्रयष्ट्यग्र-
योर्मध्ये शलाकया दिनशेषा ज्ञेयाः । दिनशेषोनं दिनमानं दिनगतनाड्यो भवन्ति ।
यतस्तदेक्यं दिनमानम् ।
अत्रोपपत्तिर्गोलयुक्त्यैव । यष्टिस्त्रिज्या । यद्भुवि वृत्तं लिखितं तत् क्षिति-
जम् । तत्र पूर्वतः पश्चिमत्तश्चांग्रा । अग्राग्रयोरुपरिगता रेखोदयास्तसूत्रम् ।