सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 540, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 540

अथात्र जीवाङ्कनमिन्द्रवज्रयाऽऽह - लम्बं नवत्यङ्गुलकैरिति । लम्बं रेखात्मकम् ।
नवतिसंख्याभिरङ्गुलैर्विभज्य भक्त्वा लम्बरेखायां विस्ताराङ्गुलमिता अङ्गुलान्तरेण
प्रदेशा अङ्कनादिना कार्या इत्यर्थः । अतश्चिह्नेभ्यः । प्रत्यङ्गुलम् । अङ्गुलमङ्गुलं
प्रतीति प्रत्यङ्गुलम् । अङ्गुलान्तरेण सूत्राणि तिर्यग्दैर्ध्याकाराणि प्रसार्य विस्तार्य । तत्र
फलकाख्येयन्त्रे । आयतसूक्ष्मा रेखाः प्रसारितसूक्ष्मानुरोधेन दैर्ध्याकारसूक्ष्मरेखा जीवा-
भिधाना ज्यासंज्ञाः सुधिया गणकेन विधेयाः । मध्या(स्या )दिलिप्तसूत्रादिभिः कार्याः
सुधियेत्यनेन विस्ताराङ्गुलमिताः समानान्तरेण दैर्घ्यरेखाः सरलाः कार्या इति
तात्पर्यम् ॥१९॥
अथ कीलकर्तनिवेशमिन्द्रवज्रयाऽऽह-आधारतोऽध इति । आधारस्थानादधोभागे त्रिश-
दङ्गुलेषु ज्यालम्बयोगे । त्रिंशज्जीवारेखालम्बरेखयोः संपाते सुषिरं छिद्रं सूक्ष्मं चका-
रात्कार्यम् । अस्मिन्सुषिरे छिद्रे । इष्टाङ्गुलप्रमाणा शलाका । सूक्ष्मा क्षेप्या । सा
शलाका । अत्र यन्त्रे । खलु निश्चयेन । अक्षसंज्ञा प्रकल्प्या । यथा त्रिंशदङ्गुलानन्यूना
छाया भवति तथेष्टशलाका क्षेप्येति ध्येयम् ॥२०॥
अथ प्रधानभूतं वृत्तमिन्द्रवज्रयाऽऽह-षष्ट्यङ्गुलव्यासमिति । अतः । अक्षमूलभूता-
च्छिद्रात् । षष्ट्यङ्गुलव्यासम् । षष्ट्यङ्गुलपरिमितो व्यासो यस्येत्येतादृशं सुवृत्तम् ।
चकारात्सुधिया गणकेन कृत्वा छिद्रे केन्द्रं प्रकल्प्य त्रिंशदङ्गुलमितव्यासार्धेन वृत्तं
कृत्वेत्यर्थः । तद्वृत्तम् । परिधिस्थाने । घटानां षष्ट्या । षष्टिघटीभिरित्यर्थः । भगणांश-
कैर्द्वादशराशीनामंशैः । चः समुच्चये । अङ्क्यम् । अङ्कनीयम् । नन्वेकं वृत्तं घट्यंशाभ्यां
कथमङ्क्यमत आह-प्रत्यंशकमिति । अंशमंशं प्रतीति प्रत्यंशकम् । दिग्भिरम्बुपलैर्दशभिः
पानीयपलैः । चकारादङ्क्यम् । प्रथमतस्तु वृत्तपरिधौ षष्ट्यधिकशतत्रयभगणांशा अङ्क्या-
स्तत एभिः षष्टिघटीपलानिषट्त्रिंशच्छतमितानि तदैकेनांशेन कानीत्यनुपातेन प्रत्यंशं दश-
पलान्यङ्कयानि । चकारात्षडंशेष्वेका घटिका । अंशो षष्टिकलाः षष्ट्यसुतुल्या अङ्क्या
इति सूचितम् ॥२१॥
केदारदत्तः- फलक यन्त्र निर्माण विधि-
किसी धातु विशेष से अथवा दीर्घकाल में भी विकृत न होने वाली सुन्दर चिक्कन
समतल लकड़ी में कालज्ञान प्रदर्शक सुफलद चतुष्कोण चकोर आयताकार फलक
यन्त्र की रचना करनी चाहिए । जिसका विस्तार ९० अंगुल और जिसकी लम्बाई
९० x २ = १८० अंगुल होनी चाहिए । अर्थात् विस्तार ३ १/२ हाथ के तुल्य और लम्बाई
३ १/२ x २ = ७ हाथ होनी चाहिए । अर्थतः पादांगुल से शिर की चोटी मूल तक की
पुरुष की ऊँचाई ३ १/२ हाथ हो तथा विस्तार x २ = दैर्घ्य = (१ हाथ हो) ।
लम्बाई के समीप में यंत्र स्थापित किया जाने वाला कोई ऐसा शिथिल आधार होना
चाहिए जिससे यन्त्र को लम्बरूप स्वरूप दिया जा सकता है । तथा आधार से नीचे यन्त्र