सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 514, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 514

४१२ गोलाध्याये
मरीचिः—अथ गोलप्रश्नाध्याये शृङ्गोन्नतिप्रश्नानन्तरं प्रश्नो नास्ति । तदुत्तरोत्तर-
मुत्तरान्तरं च नास्तीति क्षेपकनिवारणसूचनार्थं पूर्वार्धग्रन्थोक्तवासनां स्वाङ्गतयोपसंहरति—
ईषदीषदिति । इह गोलाध्याये । मध्यगमादौ । मध्यानां ग्रहाणां गमो ये गत्यर्थास्ते ज्ञानार्था
इति ज्ञानं यस्मिन्निति मध्यगमो मध्यमाधिकारः । आदिशब्दात्स्पष्टाधिकारादीनां ग्रहणम् ।
तद्विषय इत्यर्थः । मया भास्कराचार्येण । ईषदीषत् । सर्वत्रोपपत्तिकथनाशक्यत्वाद्व्यवहिते
स्थले स्थलेऽतिकठिनभूतेऽल्पा संक्षिप्तेत्यर्थः । वासनापदार्थस्तत्त्वविचारणा उक्ता प्रतिपा-
दिता । ननु विस्तरेण वासना कुतो नोक्तेत्यत आह—ग्रन्थगौरवभयेनेति । सर्वत्र विस्तरतया
तन्निरूपणे ग्रन्थबाहुल्यं भवति । तद्भयेन संक्षिप्तोक्ताऽतिविस्तृतग्रन्थे प्रेक्षावतां विलोकन-
श्रमाधिक्येनाप्रवृत्तेरिति भावः । ननु तर्हि पदार्थान्तरवासना गणितोपपत्तिश्च कथं ज्ञेयेत्यत
आह—मतिमतेति । गोलस्वरूपतत्त्वज्ञेन सुबुद्धिना गणकेन सकला पूर्वार्धोक्ताखिलपदार्थ-
गणितसंबन्धिनी वासना । ऊह्या ज्ञेया । स्वतः । ननु स्वतोऽज्ञातवासनावगमः कथं स्यादि-
त्यत आह—गोलबोध इति । हि यस्मात्कारणात् । गोलबोधे गोलस्वरूपतत्त्वे ज्ञाते सति ।
इदं स्वतोऽज्ञातवासनाज्ञानं फलं प्रयोजनम् । अन्यथा गोलज्ञानस्याप्रयोजकत्वेऽत्र प्रवृत्त्यनु-
पपत्तेः । एवकारादेतत्फलातिरिक्तं प्रधानं फलान्तरं नास्तीति सूचितम् । गोले सा विमला
करामलकवत्प्रत्यक्षतो दृश्यते । इत्युक्तत्वात् । मदुक्तत्वात् । मदुक्तरीत्या च सुबुद्धेस्तदव-
गमो नाश्क्यः । ईषन्मय। निगदितेयमिहोपपत्तिर्योज्या बुधैर्निजधिया परिभाव्य चान्या ।
शास्त्रं करोति विदुषामुपदेशलेशं तत्तैलवत्पयसि ते प्रथयन्ति सम्यगिति श्रीपत्युक्तेरिति
भावः ॥६॥
अथ प्रारब्धोऽधिकारो निरूपित इति फक्किकयाऽऽह——इति शृङ्गोन्नतिवासनाधिकार
इति । स्पष्टम् ।
दैवज्ञवर्यगणसंततसेव्यपाश्वंर्श्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् ।
याता शिरोमणिमरीच्यभिधे समाप्तिं शीतांशुशृङ्गनमनोन्नतिवासनेयम् ॥
अथ तदधिकारसमाप्त्यैवाऽऽरब्धो वासनाध्यायः समाप्त इति स्पष्टं मन्दार्थं फक्कियाऽऽ-
ह—इति श्रीभास्करीयसिद्धान्तशिरोमणौ वासनाध्याय इति । स्पष्टम् ।
वासनाध्यायममलं मरीचिस्थं मुहुर्मुहुः ।
दृष्ट्वाऽन्तः परमानन्दं लभन्तां गणकोत्तमाः ॥
इति श्रीसकलगणकसार्वभौमश्रीरङ्गनाथगणकात्मजविश्वरूपापरनामकमुनीश्वर-
गणकविरचिते सिद्धान्तशिरोमणिमरीचावुत्तराध्याये वासनाध्यायः संपूर्णः ॥
केदारदत्तः—अध्याय के उपसंहार के अवसर पर आचार्योक्ति—
मध्यम स्पष्टादि और समग्र ग्रन्थ के अन्य अधिकारों में मुख्य मुख्य विषयों पर
यथोचित कुछ न कुछ उपपत्ति कह दी है । विद्वान् खगोलज्ञों ने सभी विषयों की व्याख्या
करते रहनी चाहिए । गोलबोध का यही स्पष्ट फल है । ॥६॥