सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 506, कुल 723 में से
संदर्भ में पढ़ें४०४ | गोलाध्याये
वात्संपूर्णमण्डलं श्वेतं न भवति तथाऽपि व्यवधानेनातिसूक्ष्मश्यामतया संजातासंपूर्ण-
श्वेतमण्डलं संपूर्णतया दृश्यते । न्यूनशरे च किरणाप्रतिफलनस्य भूगोलेन निवारितत्वादृग
(दृग्)हणमेव भवतीति भावः ॥२॥
अथ दर्शपौर्णिमान्तयोः सिताभावपरमत्वोक्तेः फला(पक्षा)र्धे त्रिभान्तरितचन्द्रमण्डल-
स्यार्धं श्वेतं न्यायासिद्धं पूर्वाचार्यसंमतं निराकर्तुं युक्त्याऽन्यत्र चन्द्रमण्डलार्धं श्वेतं भवतीत्यु-
पजातिकया प्रतिपादयति—कक्षाचतुर्थ इति । यतः कारणात् । अस्माच्चन्द्रात् । इनः
सूर्यः । कर्णान्तरे । चन्द्रयोजनकर्णोनरवियोजनकर्णमितरविचन्द्रान्तररूपकर्णोन्दर्शान्ते
शौक्ल्याभावः । पौर्णमास्यन्तरे रविचन्द्रस्पष्टयोजनकर्णयोगमितसूर्यचन्द्रान्तररूपकर्णे
शौक्ल्यपरमत्वं तत्र तयोरूर्ध्वाधरान्