सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 458, कुल 723 में से
संदर्भ में पढ़ें३५६ गोलाध्याये
दक् । तथा दक्षिणोत्तरवृत्तस्य कुम्भादेश्च मध्ये स्वाहोरात्रवृत्ते पञ्चगुणाङ्कचन्द्रा
१९३५ असवो वर्तन्ते । ते षष्ट्युद्धृताः कालांशाः स्युः ३२ । १५ । अथ कुम्भा-
दिर्यावद्दक्षिणोत्तरवृत्तं नीयते तावत् कदम्बो निजमण्डले चक्रांशाङ्किते तावद्भिरेव
कालांशै ३२ । १५ दक्षिणोत्तरवृत्तसंपातात्प्रत्यगवलम्बते । कदम्बयाम्योत्तरसूत्र-
योरन्तरं वलनम् । सा च तेषामंशानां कदम्बवृत्ते ज्या । अतः क्रमज्या । उत्क्रम-
ज्या तु बाणरूपा भवति । कदम्बवृत्ते या ज्या सा क्रान्तिज्या । अतस्तेषामंशानां
क्रमक्रान्तिज्या वलनम् । अथैकराशेः क्रमक्रान्तिज्या त्रिज्यागुणा द्युज्याहृता
तथाऽपि सैव भवति ।
अथवाऽन्यप्रकारेणोत्क्रमज्यानिराकरणं द्युज्यानुपातश्च प्रतिपाद्यते क्रान्तिवृ-
त्तेऽर्कस्थानेऽर्कबिम्बं मुद्रिकाकारं विन्यस्य बिम्बपरिधौ यत्र स्वाहोरात्रवृत्तं लग्नं
यत्र च क्रान्तिवृत्तं तयोरन्तरं यद्दक्षिणोत्तरं तत्तत्र बिम्बे प्राच्यपरयोर्वलनम् ।
तच्चार्कक्रान्तेर्बिम्बार्धकलायुतस्यार्कस्य क्रान्तेश्चान्तरम् । अतस्तस्याऽऽनयनम् ।
रविदोर्ज्यायां क्रियमाणायां यद्भोग्यखण्डं तेन मानार्धकला गुण्याः । शरद्विदस्रै
२२५ भज्याः । फलं दोर्ज्ययोरन्तरं स्यात् । तत्र तावत्स्फुटभोग्यखण्डज्ञाना-
यानुपातः । यदि त्रिज्यातुल्यायां कोटौ प्रथमं ज्यार्धं शराद्विदस्रा भोग्यखण्डं
तदाऽभिमतायामस्यां किमिति । फलं स्फुटं भोग्यखण्डम् । तेन गुणितं बिम्बार्धं
शरद्विदस्रैर्भाज्यम् । एवं स्थिते शरद्विदस्रमितयोर्गुणहरयोर्नाशे कृते बिम्बार्धस्य
कोटिज्या गुणस्त्रिज्या हरः । फलं दोर्ज्ययोरन्तरम् । ततः क्रान्त्यर्थमनुपातः ।
यदि त्रिज्यया जिनज्या लभ्यते तदाऽनेन दोर्ज्यान्तरेण किमिति फलं क्रान्त्य-
न्तरम् । तद्विम्बव्यासार्धवृत्ते वलनम् । अथान्योऽनुपातः । यदि बिम्बव्यासार्धवृत्त
एतावद्वलनं तदा त्रिज्याव्यासार्धवृत्ते किमिति । अत्र त्रिज्यातुत्ययोर्गुणहरयोस्तथा
बिम्बार्धमितयोश्च तुल्यत्वान्नाशे कृते कोटिज्याया जिनांशज्या गुणस्त्रिज्ज्याहरः ।
फलं कोटिक्रमक्रान्तिज्या । तत् त्रिज्यावृत्तौ वलनम् । एवं विषुवद्वृत्तस्थित
एव ग्रहे यतो भूमध्यात्खस्वस्तिकस्थबिम्बमध्यं प्रति यत्सूत्रं नीयते तत्रिज्यासूत्रं
दण्डवत् । तदुपरिस्थं बिम्बं छत्रवत् समन्तात् सममेव । यत्तत्परितस्त्रिज्यावृत्तं
यत्र च वलनज्या देया तदपि भूसममेव स्थितम् । अतस्तत्र यथागतमेव वलनम् ।
यदा किल मेषान्ते ग्रहस्तदा तत्क्रान्त्या खस्वस्तिकादुत्तरे नतं बिम्बं स्यात् ।
त्रिज्यासूत्रं तदा कर्णरूपम् । बिम्बमध्याच्च लम्बसूत्रं ध्रुवयष्ट्यन्तं द्युज्या । सा
तत्र कोटिः । क्रान्तिज्या भुजः । यथा किंचित्कर्णस्थित्या धृते दण्डे छत्रमपि
तत्स्पर्धिन्या दिशि कर्णरूपं भवति । तत्र वलनज्ययाऽपि कर्णरूपिण्या भवितव्यम् ।
यत्पूर्वमानीतं क्रान्त्यन्तरं लम्बसूत्रप्रतिस्पर्धि तत्कोटिरूपं जातम् । तस्य कर्णकरणा-
यानुपातः । यदि द्युज्याकोट्या त्रिज्या कर्णस्तदाऽनया किमिति । पूर्वं कोटिज्याया
जिनज्या गुणस्त्रिज्या हरः । इदानीं त्रिज्या गुणो द्युज्या हरः । अत्रापि त्रिज्या-