सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 443, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 443

ग्रहणवासना ३४१
इदानीं बालावबोधार्थं छेद्यकप्रकारेण लम्बनमाह—
इष्टापवर्तितां पृथ्वीं कक्षे च शशिसूर्ययोः ।
भित्तौ विलिख्य तन्मध्ये तिर्यग्रेखां तथोर्ध्वगाम् ॥१२॥
तिर्यग्रेखायुतौ कल्प्यं कक्षायां क्षितिजं तथा ।
ऊर्ध्वरेखायुतौ खार्धं दृग्ज्याचापांशकैर्नतौ ॥१३॥
कृत्वाऽर्केन्दू समुत्पत्तिं लम्बनस्य प्रदर्शयेत् ।
एकं भूमध्यतः सूत्रं नयेच्चण्डांशुमण्डलम् ॥१४॥
द्रष्टुर्भू पृष्ठगादन्यद्दृष्टिसूत्रं तदुच्यते ।
कक्षायां सूत्रयोर्मध्ये यास्ता लम्बनलिप्तिकाः ॥१५॥
गर्भसूत्रे सदा स्यातां चन्द्रार्कौ समलिप्तिकौ ।
दृक्सूत्राल्लम्बितश्चन्द्रस्तेन तल्लम्बनं स्मृतम् ॥१६॥
दृग्गर्भसूत्रयोरैक्यात्खमध्ये नास्ति लम्बनम् ।
वा० भा०—स्पष्टार्थमपि स्वरूपमात्रं व्याख्यायते । कुदलेनोच्छ्रितो द्रष्टा दृङ्-
मण्डले स्वस्थानान्नत ग्रहं पश्यति । अतस्तज्ज्ञानार्थं पृथिवीव्यासार्धस्य योजनानि
कक्षाव्यासार्धस्य च योजनान्येकेन केनचिद्धरेण च्छित्त्वा तेन प्रमाणेन भित्तौ
विलिखेत् । एतदुक्तं भवति । भूव्यासः कुभुजंगसायकभू १५८१ मितानि योज-
नानि । एतानि केनचिन्महता हरेण च्छिन्नानि । तद्दलं भूव्यासार्धम्। तेनैव च्छेदेन
चन्द्रार्ककक्षाव्यासार्धे छिन्ने । ते तद्व्यासार्धे भवतः । एवं कृत्वा भित्तावुत्तरपार्श्वे
बिन्दुं कृत्वा तस्माद्बिन्दोर्भूव्यासार्धेन भूवृत्तं कृत्वा कक्षाव्यासार्धाभ्यां कक्षावृत्ते
च कार्ये । तस्माद्बिन्दोरूर्ध्वरेखा तिर्यग्रेखा च कार्या । तिर्यग्रेखा यत्र कक्षायां
लग्ना तत्र क्षितिजं कल्प्यम् । ऊर्ध्वरेखा यत्र लग्ना तत्र स्वमध्यं कल्प्यम् । एवं
चन्द्रकक्षायां रविकक्षायां च । ते च कक्षे भगणांशै३६० रङ्कनीये । ते चन्द्रा-
र्कयोर्दृङ्मण्डले । अथ दर्शान्तेऽर्कस्य या दृग्ज्या तच्चापांशैः खमध्यान्नतो बिन्दुः
कार्यः । एवं चन्द्रकक्षायामपि तावद्भिरेव मतांशैः । तौ बिन्दू रविचन्द्रौ कल्प्यौ ।
अथ भूमध्याद्रविबिन्दुगामिनी रेखा कार्या । सा रेखा चन्द्रं भित्त्वा रविं याति ।
अथ भूपृष्ठाद्द्रष्टुरन्या रेखा रविबिन्दुं नेया सा रेखा चन्द्रे न लगति । तयोः
सूत्रयोरन्तरे चन्द्रकक्षायां याः कला दृश्यन्ते ता वा लम्बनलिप्तास्तुल्या एव
भवन्ति । भूगर्भाद्या नीता रेखा तद्गर्भसूत्रम् । समकलौ चन्द्रार्कौ तत्र सदैव
भवतः । अथ या रेखा द्रष्टू रविबिन्दुं नीता तद्दृक्सूत्रमुच्यते । दृक्सूत्राच्चन्द्रो
लम्बितो भवति । अतस्तल्लम्बनम् । अथ यदा चन्द्रार्कौ खमध्ये भवतस्तदा गर्भ