सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 439, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 439

ग्रहणवासना ३३७
दल्पत्वाच्च । भूमण्डलस्य चात्यासन्नतत्वान्महत्वाच्च महानस्ति विशेषः । अर्धरात्रे हि
भूपाश्वान्निःसृत्य परमदूरवर्तिनो नक्षत्रमण्डलादिषु प्रतिबिम्बिता एव सूरकरा दृश्यन्ते । न
पृथक् । क्षितिजप्रान्तविशकलितत्वात् । प्रतिबिम्बितानां च स्वग्रहाप्रतिबन्धकत्वात्सम्यङ्नक्ष-
त्रग्रहः । सर्वापरागे च चन्द्रमण्डलस्याऽऽच्छादकस्य दूरवर्तिनः सूक्ष्मग्रहणात्संध्यायामिव
कतिपयस्थूलताराग्रहस्ता भूमण्डलमिव चन्द्रमण्डलमासन्नमस्माकं येनेदं वक्तुं युक्तं
तत्त्वमित्यलं पल्लवितेन । आशङ्कते—तदिति । यत्त्वाह्नुनिराकरणपूर्वकं ग्रहणसंस्थाप्रति-
पादनं प्रागुक्तं तन्निरूपितमित्यर्थः । संहितावेदपुराणबाह्यम् । राहुरुदगादिष्टः प्रदक्षिणं
हन्ति विप्रादीनित्यादिसंहिता । स्वर्भानुर्हि वा आसुरः सूर्यं तमसा विव्याध तद् विद्धो न
व्यरोचतेत्यादिवेदाः । सर्वं गङ्गासमं तोयं सर्वे ब्रह्मसमा द्विजाः । सर्वं भूमिसमं दानं
राहुग्रस्ते दिवाकरे । निशाकरे वेत्यादिपुराणानि । पुराणपदेन स्मृतयः संगृह्यन्ते । तात्पर्यं-
क्यात् । एभ्यो बाह्यं विरुद्धमित्यर्थः ॥९॥
अथोपजातिकयोत्तरयति-राहुः कुभेति । राहुः पुराणादिप्रसिद्धोऽसुरो भूच्छायाबिम्ब-
वृत्ताऽधिष्ठितः संश्चन्द्रबिम्बं छादयति । चन्द्रबिम्बाधिष्ठितः संन्सूर्यबिम्बं छादयति ।
अतः । तद् ग्रहणसंस्थाप्रतिपादनं सर्वगमानां षण्संहितावेदपुराणस्मृतीनाम् । अविरुद्धम् ।
एकवाक्यतापन्नमित्यर्थः । प्रागुक्तच्छादकस्य राह्वधिकरणतया तदेकरूपत्वात् । केवलराहो-
श्छादकत्वनिरासादेतत्कल्पनं युक्तियुक्तम् । ननु भूभेन्द्वोरन्धकाररूपतया न तत्र तदागम-
नाद्वैलक्षण्यं प्रतीयतेत्यत आह—तमोमय इति । अन्धकाररूपः । तथा च रूपैक्यान्न
विलक्षणप्रतीतिरिति भावः । ननु तद्यथेच्छविहारात्प्रवहवायौ स्थितिनियमाश्रवणाच्च कथं
भूभाचन्द्रबिम्बयोस्तद्गमनं संभवतीत्यत आह—शंभुवरप्रदानादिति । शं सुखं यस्माद्भव-
तीति व्युत्पत्त्या शंभुर्ब्रह्मा । नतु महादेवः । वाराहीग्रन्थादिविरोधात् । तस्य स्वस्मै
यद्वरदानं ग्रहणकालिकलोकानुष्ठितकर्मजनितपुण्यांशभागित्वरूपं तस्मात् । ब्रह्मदत्तवरप्रभावा-
दित्यर्थः । तथा च योऽसात्सुरो राहुस्तस्य वरो ब्रह्मणाऽयमाज्ञप्तः । आयायन(?)मुपरागे
दत्तहुतांशेन ते विभावित्ता तस्मिन्काले संविष्य(निध्य)मस्य तेनोपचर्यते राहुरिति वारा-
होक्त्या तत्र तद्गमनं संभवति । ग्रहणे कमलासनानुभावायु(द्धु) तदत्तांशभुजोऽस्य संनि-
धानम् । यदतः स्मृतिवेदसंहितासु ग्रहणं राहुकृतं(गतं) प्रसिद्धमिति लब्धो(ल्लो) कश्चेति
भावः । केचित्तु बा(रा)हुश्चन्द्राधिष्ठितगोलसंबन्धिचन्द्रविक्षेपक्रान्तिवृत्तसंपातस्थस्य मुख-
पुच्छविभागेन संपातयोर्द्विधाभूतस्य नियतचारकस्यासुरस्य सूर्यचन्द्रग्रहणयोरसाधारणाका-
रणता पुराणस्मृतिसंहिताकारैर्मुनिभिरुक्ता । नानियतचारकस्यासुरस्येति राहुकृतमेव ग्रहणं
पर्यवसितम् । ननु संपादादतिरिक्तस्थानस्थितयोः सूर्येन्द्वोर्ग्रहणदर्शनादुक्तद् भणाच्चोक्तो राहुर्न
ग्रहणकारक इति भूभाचन्द्राभ्यामेव चन्द्रसूर्ययोर्ग्रहणं गोलयुक्त्या सम्यगुपपद्यत इति चेन्न ।
शरस्य ग्रहणज्ञान उपयोगात्तस्य चन्द्रपातसाध्यत्वेन चन्द्रपातात्मकराहोरेव परम्परया ग्रहण-
कारणत्वपर्यवसानात् । न च ग्रहणार्थं चन्द्रपातोऽपि न स्वीक्रियते येन रहोस्तत्कर्तृत्वसिद्धि-
रिति वाच्यम् । विक्षेपवृत्तानभ्युपगमेन चन्द्रपातात्मकराहोरसिद्ध्या प्रतिपर्वग्रहणापत्तेः ।
२२