सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 436, कुल 723 में से
संदर्भ में पढ़ें३३४ गोलाध्याये
ग्रसतीति चेत्तर्हि पर्वान्त एव ग्रासो न स्वादिमध्ययोरित्यत्र को हेतुः । अथ तथैव नियोग
इति चेत् । एवमपि नियमाभावान्नियोगस्य नियमरूपत्वात् । यतोऽर्कग्रहे पर्वान्तात्प्राग-
परत्र कपालविभागेन लम्बमनाटिकाभिरन्तरितत्वेन ग्रासस्य संभवेन पर्वान्त एव ग्रसेदिति
नियमानुपलम्भः । किंच यदि वैरेणायं ग्रसेत्कथमसौ नियतिवशान्मुञ्चेत् । तदैव वा
मुञ्चेत् । मासाद्यनन्तरं वा मुञ्चेत् । न मुञ्चेदेव वा । नतु प्रतिनियतेन कालेन ।
अपि च ग्रसन्नप्यसौ कदाचित्सर्वं तनुं कदाचिदर्धं कदाचित्पादं कदाचिच्च ततो न्यूना-
धिकमिति कथं वैरा Schneider ननु तत्र वैरानुकंपामिति विनिगमकम् । तथात्वे तु सर्वस्यैवौचित्वात् ।
किंच, एकराशिगतत्वेऽयं तत्संनिहितावपि कदाचिक( द )र्केन्दू न ग्रसति । विप्र-
कृष्टान्तरावपि कदाचिद्ग्रसति । किंच भार्घान्तरावपि तत्र शीघ्रं गत्वा ग्रसति । न त्वेक-
द्वित्रिराश्यन्तरितावित्येतत्किं निषे(बन्ध)नम् । ननु राहुकेत्वोरेकतरस्य संनिधावेव ग्रहणं
भवतीति राहुः केतुर्वा स्वसंनिहितौ तौ गृह्णीयादिति चेत् । एकराशियतत्वेऽपीत्यादिना
दत्तोत्तरत्वात् । तत्र शरेण व्यवहितत्वमेव परिचायकमिति चेत् । भवतु चन्द्रस्य तथा । न
परमा(दित्यस्या) विक्षेप(ज्ञेय)स्य विक्षेप(ज्ञेय)भावात् । तथा च राहोर्ग्रहणकरणत्वं कोटि-
शास्त्रकं विरुद्धमिति सिद्धम् । ननु चन्द्रस्य सूर्यच्छादकत्वपक्षोऽप्यनुपपन्नः । तथा हि-ग्रह-
तारादीनां दिनादर्शनं प्रति सूर्यकिरणावृत्तत्वमेव प्रयोजकम् । तत्र किमनेन सोमा(म्य)
महसति-(सां ते)षां तेजोभिभवान्मण्डलपरिलोपो विधीयते, किमथवा नयनप्रतिघातो गे(वो)
भयपि वेति । अत्र पक्षत्रयेऽपि सूर्यसर्ववलयाकारग्रहणावसरे प्रौढतारकाणां संदर्शनं सूर्य-
कराणामवारितत्वेन कथमुपपन्नं भवेदिति साधारणमेकं दूषणम् । अथ तद्ग्रहणावसरे रवि-
किरणावान्तरा चन्द्रस्तिष्ठतीति पिधायकीभूतेन तेन नयनप्रतिघातापाकरणमेव क्रियत इति ।
ननु(येन)किरणानामप्रतिहतत्वेन तदवधिप्रसरसत्त्वेन तदा ग्रहतारादिदर्शनमुचितमेव ।
अन्यदा तु पिधानाभावेन प्रतिघातप्रतिबन्धकासंभवाददर्शनमेवेति चेत् । र्तार्ह सति विधा-
यके दर्शनमसति च नेत्यन्वयव्यतिरेकाभ्यां कस्यचिदेकस्यैव पिधायकस्य प्राधान्येन दर्शनं
प्रति प्रयोजकत्वव्यवस्थितौ पिधायकत्वाविशेषेणोदयकालेऽपि प्राग्भावावच्छेदेन मेघोपगूढे
रवावितरभागावस्थितानां दर्शनप्रसङ्गः । उभयत्र सामग्रीवैचित्र्याभावात् । वस्तुत एतन्मे-
द्याद्युपदर्शनं दाक्षिण्यादेवान्ततो गत्वा करतलेनापि पिहिते रवावित्येवाभि(नि)ष्टापादनं
ज्यायः । ननु तत्र मेघादीनां संनिहितवृत्तितया तावदवधिकनयनव्यापारवृत्तावपि परतो
रविकिरणानां विशेषतः सत्त्वेन प्रतिघातस्यैव वृत्तत्वात्कथमतिदूरनिविष्टानामन्यतारकाणा-
मुपलम्भो भवेदिति चेत् । र्तार्ह चन्द्रमण्डलावधि चक्षुर्व्यापारोपपत्तावपि तत्परतो लक्षशो
योजनान्तारे परिवर्तमानस्य शुक्रस्य तत्परतोऽपि दूरतोऽनेकयोजनान्तरे नक्षत्राणां वृत्तिसत्त्वे-
नाधोवर्तमानबुधशुककक्षयोः प्रचुरतरकरप्रसरसत्त्वादुपर्यपि चातितरामेवेति चन्द्रादपि पर
तोऽतितरामेव नयनव्यपारप्रतिबन्ध इति तुल्यमितरत्रापि । तथा च चन्द्रस्याऽऽच्छादकपक्षे
सर्वार्कग्रहे तारादर्शनमनुपपन्नमतः पौराणिकमते निरुक्तासुरग्रासपक्ष उपरागावसरे सूर्यस्य
गिलनादेव प्रतिघातकतेजोन्तराभावादशेषग्रहतारादिदर्शनमव्याहतमतो राहोरेव करणत्वं
युक्तियुक्तमिति चेत् । अत्र सिद्धान्तसुन्दरटीकाकृतस्तु रविकिरणानामुभयाभिभावकत्वमेव ।