सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 424, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 424

३२२ गोलाध्याये
एतत्क्षेत्रादेवास्य वर्गं त्रिज्याकृतेः प्रोज्झ (ज्झ्य)पदं द्युजीवेति स्पष्टाधिकारोक्तं सूपपन्नम् ।
द्वितीयमाह-मेषादिजीवा इति । अपवृत्ते क्रान्तिवृत्ते । मेषादिजीवाः । कल्पितमेषादितो
राशीनामेकद्वित्रयाणां ज्या कर्णः । तद्भूमिजे । निरक्षभूगर्भक्षितिजवृत्ते । क्रान्तिगुणाः ।
तद्राशीनां क्रान्तिज्याः । भुजा भवन्ति । तद्राशीनां द्युनिशाख्यवृत्ते । तत्कोटयः । तत्क्षेत्राणां
कोटयः । अत्र राशिरित्युपलक्षणम् । पदान्तर्गतभागानामिति ध्येयम् । नन्वेतत्क्षेत्रस्य किं
प्रयोजनमत आह—व्यासार्धवृत्त इति । ततस्तत्क्षेत्रात्तासां तद्राशिक्षेत्रसंबन्धिकोटीनामु-
त्पन्नानाम् । स्वक्रान्तिज्यावर्गहीनायाः स्वदोर्ज्यायाः पदरूपाणामित्यर्थः । व्यासार्धवृत्ते ।
त्रिज्यावृत्ते परिणामितानाम् । परिणामः संजातो यासाम् । त्रिज्यागुणितानां द्युज्याभ-
क्तानां चेत्यर्थः । चापेषु येऽसवः । ते स्वाधः शुद्धाः निरक्षदेशे तद्राशीनामुदयासवो भवन्ति ।
ततश्चैतत्क्षेत्रभेदेभ्य एव । एकस्य राशेर्महती ज्यका या द्वयोस्त्रिभस्यापि कृतीकृतानामि-
त्यादिपद्म(द्य)द्वयेन स्पष्टाधिकारोक्तं निरक्षोदयसाधनं सूपपन्नमिति भावः ॥४४॥
केदारदत्तः—क्रान्तिसाधनपूर्वक निरक्ष देशीय उदयासु साधन तथा संक्षेपतः क्रान्ति
क्षेत्रों की उत्पत्ति कही जा रही है ।
(१) क्रान्तिज्या = भुज, द्युज्या = कोटि और त्रिज्या = कर्ण ।
(२) क्रान्तिवृत्त में मेषादि तीन राशियों की ज्या = भुजांशज्या = कर्ण तथा
क्रान्तिज्या = भुज । अहोरात्र वृत्त में तीनों की कोटियाँ अपनी-अपनी क्रान्तिज्या वर्ग
से रहित भुजज्या वर्ग का मूल कोटि का मान भुज कोटिज्या व्यासार्धवृत्त में होने से
विषुवांशज्या × त्रिज्या
—————————— = नाड़ी वृत्त में एकादि राशियों के उदयासु होते हैं । तृतीय राशि
द्युज्या
उदयासु—द्वितीय राशि उदयासु, एवं द्वितीय राशि उदयासु—प्रथम राशि उदयासु द्वितीय
तथाप्रथम राशि उदयासु इस प्रकार मेषादि तीन राशियों के उदयासु पूर्वक १२ राशियों
के निरक्षोदयासू होते हैं ॥४२।४३।४४॥
अथाक्षक्षेत्राण्याह—
भुजोऽक्षभा कोटिरिनाङ्गुलो ना कर्णोऽक्षकणॊस्त्रिभुजं यथेदम् ।
तथाऽक्षलम्बौ भुजकोटिरूपौ त्रिज्या श्रुतिर्दक्षिणसौम्यवृत्ते ॥४५॥
उन्मण्डले प्रागपरोत्थसूत्रा-
त्क्रान्तिज्यका कोटिरथ द्युरात्रे ।
कुज्या भुजोऽग्रा क्षितिजे च कर्णः
क्षेत्रं तथेद्ं त्रिभुजं प्रसिद्धम् ॥४६॥
अग्रा भुजः स्वे समना च कोटि-
र्द्यु रात्रके तद्धृतिरत्र कर्णः ।
भुजोऽपमज्या समना च कर्णः
कुज्योनित्ता तद्धृतिरेव कोटिः ॥४७॥