सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 405, कुल 723 में से
संदर्भ में पढ़ेंअप्रश्नवासना ३०३
कुण्डल्यां तद्विचारः । अत एव पद्धतिषु धीमद्भिर्द्दृष्टिसाधनं तथैव कृतमित्यलं प्रसङ्गागत-
विचारपल्लवितेन ॥२६॥
केदारदत्त—लग्न शब्द की व्युत्पत्ति—
क्रान्तिवृत्त का राश्यात्मक वह प्रदेश पूर्व क्षितिज में जहां पर लगा होता है उस
बिन्दु पर की राश्यादिक उस प्रदेश का नाम लग्न होता है । तथा पश्चिम में वृत्त का
जो प्रदेश पश्चिम क्षितिज में जहां लगा है उसे अस्तलग्न तथा याम्योत्तराहोरात्र वृत्त
सम्पात स्थ क्रान्तिवृत्त प्रदेश का नाम दशम लग्न होता है ।
इसी आधार से क्रान्तिवृत्तयाम्योत्तराहोरात्र वृत्तों के अधोःसम्पात (मध्य रात्रि) बिन्दु
का नाम चतुर्थ लग्न कहा जाना चाहिए । आचार्य ने दृश्य गोलार्ध में उदय से अस्त तक
के ही लग्नों का निर्देश किया है ॥२६॥
अथ लग्नार्थमर्कस्य तात्कालिकीकरणवासनामाह—
लग्नार्थमिष्टघटिका यदि सावनास्तास्तात्कालिकार्ककरणेन भवेयुराक्ष्यः।
आक्षोदया हि सदृशोभय इहापनेयास्तात्कालिकत्वमथ न क्रियते
यदाऽऽर्क्ष्यः ॥२७॥
वा० भा०—ननु लग्नकरणार्थं या इष्टघटिकास्ताः सावना उत नाक्षत्राः ।
यदि सावनास्तर्हि नाक्षत्रा उदयाः कथं विसदृशास्ताभ्यो विशोध्याः । अतस्ताभि-
र्नाक्षत्राभिर्भवितव्यम् । तथा भोग्यकालसाधनार्थमर्कस्तात्कालिकः किं कृतः । यत
उदयावधेरिष्टघटिकास्तथाऽर्कोदयानन्तरमेव राशेर्भोग्यांशाः क्रमेणोद्गच्छन्ति ।
अत औदयिकार्कस्य भोग्यं ग्रहीतुं युज्यते न तात्कालिकस्य ।
तथा प्रतीत्यर्थमुदाहरणम् । यत्र किल पञ्चाङ्गुला ५ विषुवतो तत्र मेषादि-
गोऽर्के स्फुटमहोरात्रं चतुश्चत्वारिंशदसुभिरधिकाः षष्टिघटिकाः ६०।७।२ । अथ
उदयानन्तरमहोरात्रसमे काले ६०।७।२ यावत्तात्कालिकार्काल्लग्नं साध्यते तावद-
र्काधिकं स्यान्न समम् । यावदौदयिकार्कात्क्रियते तावत्सममेव । अतोऽन्वय-
व्यतिरेकाभ्यां प्रतीतेर्युक्तितश्चार्कतात्कालिकीकरणमयुक्तमिव प्रतिभाति । सत्यम् ।
अत एवोक्तं लग्नार्थमिष्टघटिका इत्यादि ।
अत्रेष्टघटिकाः सावनास्तावदाचार्यैरङ्गीकृतास्तासां नाक्षत्रत्वं कर्तव्यम् ।
तच्चैवम् । यथा प्रागुक्तस्वाहोरात्रसंबन्धिन्यो या गतिकलास्ताः स्वोदयासुभिः
संगुण्य राशिकलाभिर्विभज्य फलासुभिरधिकाः सावनतुल्या नाक्षत्राः षष्टिघटिका
अहोरात्रवृत्ते नाक्षत्राः स्युः । एवमिष्टघटीसम्बन्धिन्यो या गतिकलास्ताः स्वोदया-
सुभिः संगुण्य राशिकलाभिर्विभज्य फलासवस्तास्विष्टघटिकासु सावनासु प्रक्षेप्याः ।
एवं नाक्षत्राः स्युः । तत औदयिकार्कस्य भोग्यासवः शोध्याः । एवं सत्याचार्येण
लाघवार्थमिष्टघटीसम्बन्धिन्यो गतिकला अर्के प्रक्षिप्तास्ततो ये भोग्यासवस्त