सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 397, कुल 723 में से
संदर्भ में पढ़ेंत्रिप्रश्नवासना २९५
यहाँ पर ध्यान देने की बात है समीकरण में जहाँ पर क्रान्ति वृत्त और ध्रुव प्रोत-
वृत्तोत्पन्न कोण का मान अधिक होता है उसी राशि का उदय मान अधिक होता है ।
मूल में तिर्यक् स्थितत्व का अर्थ अल्पकोणोत्पादकत्व और ऊर्ध्वस्थितत्व का अर्थ
अधिककोणोत्पादकत्व समझना चाहिए ॥
१५ + चर = मेषादि, १५ + चर = तुलादि ।
१५ - चर = मकरादि, १५ - चर = कर्कादि उत्पन्न हुआ ।।१९।।२०।।२१।।२२।।२३
अथास्तमयानाह—
योऽभ्युदेति समयेन येन तत्सप्तमोऽस्तमुपयाति तेन च ।
राशिरूर्ध्वमपमण्डलं कुजादर्थमेव सततं यतः स्थितम् ॥२४॥
वा० भा०—यो राशिर्येन कालेनोदेति तेन तत्सप्तमोऽस्तं याति । ये मेषादीना-
मुदयास्ते तुलादीनामस्तमयाः । ये तुलादीनामुदयास्ते मेषादीनामस्तमया इत्यर्थः ।
यतोऽपमवृत्तं क्षितिजादुपर्यर्धमेव भवति । अर्धमधश्च । अतो राश्योरुदयमस्तमयं
च गच्छतोस्तुल्यकालतोपपद्यते ।।२४।।
मरीचिः—ननु निरक्षे राश्युदयास्तकालमानयोरभेदः साक्षे तयोर्भेदः कुतः संजात
इत्यतो राश्यस्तकालवासनां रथोद्धतयाऽऽह—योऽभ्युदेतीति । यो राशिर्येन कालेनाभ्युदेति
क्षितिजपूर्वभागसक्तो भवति तेन कालेन । चकारातन्न्यूनाधिककालव्यवच्छेदः । तत्सप्तमः ।
उदितराशेः सकाशात्सप्तमो राशिरस्तं क्षितिजपश्चिमभागसक्तत्वमुपयाति प्राप्नोति । अत्र
कारणमाह–ऊर्ध्वमिति । क्षितिजादूर्ध्वं क्रान्तिवृत्तम् । अर्धम् । एवकारान्न्यूनाधिकव्य-
वच्छेदः । सततं नित्यम् । यतः कारणात् । स्थितमस्ति क्रान्तिवृत्तस्य भूगर्भकेन्द्रत्वात् ।
अन्यथा तत्केन्द्रत्वानुपपत्तेः तथा च क्रान्तिवृत्तप्रदेशो यथोदेति तथा तत्षड्भान्तरितप्रदेशोऽस्तं