सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 371, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 371

गोलबन्धाधिकारः २६९.
ननु भगोले प्रतिप्रदेशं क्रान्तिवृत्ते वा क्रान्तितुल्यान्तरस्थानेकत्वसंभवात्कस्य क्रान्ति-
तुल्यान्तरग्रहणेनेदं निबन्धनीयम् । अन्यथा विनिगमनाविरहेण तत्प्रतिप्रदेशानुरोधेन तन्नि-
बन्धने पूर्ववृत्तानामाच्छादितत्वेन तत्संस्थाज्ञानस्यानुत्पत्तेरित्यत उपगीत्याऽऽह-अथ
कल्प्या इति । अथ उक्तद्युरात्रवृत्तस्वरूपेण तदनेकत्वसंभावनया गो‌लाच्छादनसंभवात्त-
न्निबन्धनमुचितं यद्याशङ्कसे तर्हीत्यर्थः । क्रान्तिपाताङ्कात् क्रान्तिपातचिह्नस्थानादनुलोमं
सव्यक्रमेण राश्यङ्कक्रमानुरोधेनेत्यर्थः । मेषाद्या द्वादश राशयः कल्प्याः । अत्र क्रान्तिवृत्ते
क्रान्तिपातस्थानात्समास्त्रिंशद्भागात्मकाः कल्पनीयाः । एतेन रेवतीस्थानाद्ये मेषादिराश-
योऽङ्कितास्त एव वास्तवाः ग्रहभोगगणनार्थमेतेऽवास्तवा गौणा इति स्पष्टं सायनपक्षो
निरस्तः । अवास्तवाः किमर्थं कल्पनीया इत्यत आह-एषामिति । विषुवत्क्रान्तिवृत्त-
संपातस्थानावधिकल्पितावास्तवानां मेषादीनां राश्यन्तप्रदेशानाम् । उक्तरीत्या द्युरात्रवृ-
त्तानि बध्नीयात् । वास्तवराशीनामनियतस्थानत्वादद्युरात्रवृत्तनिबन्धनमुपेक्षितमिति । तथा
च क्रान्तिवृत्ते त्रिंशद्भागान्तरेण तद्वृत्तनिबन्धने विरलतया पूर्ववृत्तदर्शनात्तत्संस्थाज्ञान
विलोपासंभवायुक्त्तमन्यथाऽहोरात्रवृत्तं बिना तद्भ्रमणस्थितिज्ञानासंभवापत्तेः । शरवृत्तं
चानियतमतस्तत्संबन्धेन द्युरात्रवृत्तनिबन्धनं नोक्तमशक्यत्वादिति भावः ॥२८॥
केदारदत्तः - नाड़ी क्रान्ति वृत्त सम्पात से मेषान्त वृषान्त, मिथुनान्त क्रान्ति तुल्य
उत्तर में, एवं पुनः दक्षिणायन में क्रान्ति कर्कान्त सिह्रान्त कन्यान्त तुल्य तथा पुनः
तुलान्त, वृश्चिकान्त एवं धन्वन्त क्रान्ति तुल्य तीन वृत्त दक्षिण में पुनः मकर कुम्भ
मीनान्त क्रान्ति तुल्य इस प्रकार १२ अहोरात्र लघुवृत्त नाड़ी वृत्त के समानान्तर होते
हैं, पूर्व श्लोक में सविशेष व्याख्या स्पष्ट है ॥२८॥
नाडोवृत्तोभयतस्त्रीणि त्रीणि क्रमोत्क्रमात्तानि ।
एष भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः ॥२९॥
अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव ।
शन्यादीनां कक्षा बध्नीयादूर्णनाभजालाभाः ॥३०॥
बद्ध्वा भगोलमेवं यष्ट्यां यष्टिं खगोलनलिकान्तः ।
प्रक्षिप्य भ्रमयेतं यष्टचाधारं स्थिरौ खदृग्गोलौ ॥३१॥
वा० भा०-यथाऽयं भगोलो बद्धस्तथैव ग्रहगोला अपि बन्धनीयाः । किंतु
छेद्यकमन्तश्चालयितुं नाऽऽयातीति बहिःस्थमेव दर्शनीयम् । अथवाऽत्र भगोले
यदपमण्डलं तस्याधोऽधस्तन्निबद्धैः सूत्राधारैर्बद्ध्वा शनैश्चरादीनां कक्षा दर्श-
नीयाः । एवंविधं भगोलं यष्ट्यां दृढं बद्ध्वा यष्टयग्रयोः प्रोते नलिकाद्ये निबद्धौ
खगोलदृग्गोलौ कृत्वा भगोलभ्रमणं दर्शयेत् ॥२९॥३०॥३१॥
इति श्रीभास्कराचार्यविरचिते गोलवासनाभाष्ये मिताक्षरे गोलबन्धाधिकारः ।