सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 361, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 361

गोलबन्धाधिकारः २५९
मन्दस्फुटगत्या ग्रहो भ्रमति। तत्र च वृत्ते पातोऽतो गणितागतं पातं मन्दस्फुटे
प्रक्षिप्य क्षेपः साध्यते। शेषं स्पष्टम् ॥२०॥२१॥२२॥
मरीचिः—अथोपोद्घातसंगत्या शरपातस्वरूपमुपगीत्याऽऽह—एवमिति ।
एवमुक्तरीत्या । यथा विषुवत्क्रान्तिवृत्तसंपातस्तथेत्यर्थः । क्रान्तिवृत्तविक्षेपवृत्तयोः
संपाताश्चन्द्रादीनां ग्रहाणां क्षेपपाताः । क्षेपवृत्तस्य क्रान्तिवृत्ते संपात इत्यस्य मध्याक्षर-
लोपात् क्षेपपाताः क्षेपार्थं पाता इति वा व्यस्ताः पश्चिमगतयो भवन्ति । क्रान्तिशरवृत्तं
स्वपश्चिमगत्याऽन्वहं चलतीति भावः । तत्प्रयोजनमाह—क्षेपानयने इति । शरसाधन-
निमित्तम् । तुकारस्तदन्यनिरासार्थकैवकारपरः । ते शरपाताः । चन्द्रादीनां योज्याः ।
तथा च विक्षेपवृत्ते संचरतां ग्रहाणां क्रान्तिवृत्तप्रदेशेन यद्याम्योत्तरमन्तरं स शरः ।
क्रान्तिवृत्ताच्छरः क्षेपवृत्तावधिस्तिर्यग्गत्यक्तत्वात् । तस्य क्रान्तिवृत्तसंपाताभ्यामारम्भात्त-
त्स्थानमावधितः शरसाधनोपजीव्यग्रहभोगार्थी मेषाद्यवधिसिद्धग्रहभोगविपरीतपातभोगो
योज्य इति भावः ॥२०॥
ननु गोलरीत्या यथा क्रान्तिपातसंस्कृतात्स्पष्टग्रहात्क्रान्तिसाधनं तथा पातयुक्तस्पष्ट-
ग्रहाच्छरसाधनमपि युक्तिसिद्धम् । तत्कथं छायाधिकारे मन्दस्फुटात्खेचरतः स्वपातयुक्ता-
दित्युक्तं संगच्छत इत्यतस्तदुत्तरमुपजातिकयाऽऽह—मन्दस्फुट इति ।
ग्रहो मन्दस्फुटात्मको वस्तुभूतः । द्राक्प्रतिमण्डले हि यतो भ्रमति संचरत्यतस्तस्थं
ग्रहस्य पातः । शराभावस्थानत्वेन ज्ञातं मन्दस्पष्टस्थानं दिनान्तरसंबन्धि । अत्र शीघ्र-
प्रतिवृत्ते भवति । चकार एवार्थे । तेन कक्षावृत्ते वस्तुभूतग्रहभ्रमणाभावात्तदात्मकशरा-
भावस्थानस्यापि कक्षावृत्तेऽभाव इत्यर्थः । एतेन मन्दप्रतिवृत्तेऽनुपातानीतपातोऽपि तत्राऽऽ-
स्तामिति निरस्तम् । भौमादीनां मन्दप्रतिवृत्तस्यावास्तवत्वेन कल्पना । नहि तदाऽऽकाशे
भौमादयस्तत्तत्त्वतस्तथा संचरन्तीति केनाप्यङ्गीक्रियते । अधिकलानुपलम्भापत्तेः । अत्र
चेत्यस्य कर्णव्यासार्धेनोत्पन्नकक्षाशरवृत्तयोः संपाते पात इत्यर्थोऽवधेयः । अस्मात्कारणाद्-
गणितागतेनाहर्गणानुपातेन मध्यमग्रहवत्पातभगणेभ्य आनीतेनेत्यर्थः । पातेन भगणत्यागाद्वा-
श्याद्यात्मकपातभोगेन युक्तान्मन्दस्फुटाद्ग्रहाच्छरश्छायाधिकारे मन्दस्फुटात्खेचरत इत्यनेन
सूचितं द्वितीयश्लोकेन युक्तियुक्तः साधित इत्यर्थः ॥२१॥
ननु समकलग्रहपातसमांगमाद्बहुगुणोऽथ निजेषु कलाहतः । निजचलश्रवणेन हृतो
भवेदयनमण्डलतः स्फुटसायक ॥ इति श्रीपतिना स्पष्टग्रहाच्छरसाधनं कथमुक्तमित्यतस्तदुत्तरं
चन्द्रस्य विशेषं चोपजातिकयाऽऽह—पात इति ।
अतः शीघ्रप्रतिवृत्ते गणितागतसद्भावकल्पनेन शरसाधनस्य सपातमन्दस्फुटग्रहादुक्ते-
रिति हेतोः पाते शीघ्रफलं स्वग्रहसंबन्धि नतु पातादानीतम् । विलोमं ग्रहे चेद्धनं तदापाते
ऋणं चेद्धनमित्यर्थः । कृत्वा संस्कूत्य । तेन तादृशेन पातेन स्फुटात्फलद्वयसंस्कृतमध्यग्रहा-
द्यत्कादुक्तरीत्या शरः । अथवा प्रकारान्तरेण पूर्वतुल्य एव भवति । तथा च शीघ्रफलं व्यस्तं