सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 341, कुल 723 में से
संदर्भ में पढ़ेंगोलबन्धाधिकारः २३९
क्षेपवृत्तं शलाकजं तुकारात्पूर्ववृत्तसमं चक्रभागाद्यङ्कितमपि मेषादिराशिप्रथमाक्षराद्यङ्कितं
यद्वृत्तं तत्क्षेपवृत्तम् । तत्र क्षेपवृत्ते क्षेपयातेषु प्रस्फुटपातस्थानेषु चिह्नान्युक्तवत्क्रान्तिवृत्ते
शरपातस्थानचिह्नानि तथेत्यर्थः । कृत्वा । चः समुच्चये । तेन क्रान्तिशरवृत्ते पातचिह्ना-
ङ्कितेनैकतसम् । क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च । चः समुच्चये । क्षेपपातेऽङ्कितशरपात-
स्थाने सषड्भे स्वस्वषड्भान्तरितस्थानाभ्यां सह वर्तमाने । युतिं संयोगम् । चः समुच्चये ।
कृत्वा । क्षेपपातस्थानादग्रिमभागे राशिक्रममार्गेण । त्रिभे त्रिराश्यन्तरितप्रदेशे पृष्ठतो
राश्यङ्कनविलोममार्गेण । पातस्थानात्पृष्ठभागे त्रिभान्तरिते प्रदेशे । चः समुच्चये ।
क्षेपभागैः स्फुटैः परमैर्वक्ष्यमाणैःक्रान्तिवृत्तात्सौम्ययाम्ये । अग्रपृष्ठक्रमेण शरवृत्तं निबन्ध-
येत् । इदमप्यतीन्द्रियदृग्बिभ्रंशादिभिश्चन्द्रादिगतिदर्शनानुरोधेनोपकल्पितशरवृत्तानुकल्प-
रूपम् ।।१३।।१४।।
ननु शरवृत्तक्रान्तिवृत्तयोरेकत्वात्तयोः सर्वग्रहशरपाताङ्कनात्कयोः शरपातयोः
संपातं कृत्वा विक्षेपवृत्तं निबन्धव्यमित्यतः क्षेपपाते त्विति बहुवचनसूचिताभिप्रायं स्फुटक्षे-
पभागकथनपुरःसरं स्रग्विण्या विशदयति—शीघ्रकर्णेनेति ।
ग्रहाणां भौमादीनां क्षेपभागा ग्रहच्छायाधिकारे याः परमशरकलास्ताः षष्टिभक्ता
इत्यर्थः । त्रिज्यागुणिताः शीघ्रकर्णेन भक्ताः फलं स्फुटाः परमशरभागाः स्युः । चन्द्रस्य
परमशरभागाः सार्धचत्वार एव । शीघ्रकर्णाभावात् । अत्रोपपत्तिः । पठिताः परमशरः
कर्णाग्रे । भगोलस्तु त्रिज्याव्यासार्धकः । अतो भगोले क्रान्तिशरवृत्तयोः परमान्तरज्ञा-
नार्थं कर्णाग्रे परमशरस्तदा त्रिज्याग्रे क इत्यनुपातः समञ्जसः । चन्द्रस्य तु भगोले लक्षितः
इति स्थिरः । क्षेपवृत्तानीति । षण्णां चन्द्रादिग्रहाणां शरवृत्तानि पृथक् पृथक् कुर्यात् ।
तथा च क्षेपपातेष्वित्यनेन चन्द्रादीनां षड्वृत्तानि राश्यङ्कितानि शरवृत्तानि । तेषु क्रमेण
चन्द्रादिशरपाता अङ्क्याः । ततः क्रान्तिवृत्ते स्वस्वपातचिह्ने तत्षड्भान्तरे च स्वशरवृत्तं
पातस्थाने षड्भान्तरे स्थाने च निबद्धं स्वस्वस्फुटशरभागैः क्रान्तिवृत्तादुत्तरयाम्ये ग्रहपृष्ठ-
त्रिभान्तरे च निबद्धम् । एवमेकस्मिन्क्रान्तिवृत्ते षट्शरवृत्तानि स्वस्वपातचिह्नस्वस्वस्फुट-
शरभागवशतो भिन्नानि भवन्ति । ननु भगोलस्थक्रान्तिवृत्ते शरवृत्तानां निबन्धनं नोचितम् ।
शरवृत्तस्य ग्रहमार्गत्वेन भगोलाद्यः कक्षामार्गेण तन्निबन्धनस्योचितत्वादित्यत आह—
स्वस्ववृत्त इति । इन्दुपूर्वाद्याश्चन्द्राद्या ग्रहाः स्वकक्षायां स्वस्वशरवृत्ते भगोलस्था भ्रमन्ति ।
स्वपूर्वगत्या गच्छन्ति । तथा च यथा सूर्यःस्वकक्षायां भ्रमत्य(न्न)पि तत्र नक्षत्रव्यञ्जकरा-
शीनामभावात्सूर्यवृत्तानुकल्पितभगोलस्थक्रान्तिवृत्ते नक्षत्राश्रितगोलान्तर्गत्वेन राशीनां
सत्त्वात्तत्र सूर्यगतिः समसूत्रतया कल्प्यते । तथैव चन्द्रादीनां भगोलाधोवस्थानेऽपि तत्र
राशीनामभावात्तत्समसूत्रेण भगोल एव गतिनक्षत्राद्यधिष्ठानज्ञानार्थं शरवृत्तानि कल्प्यन्त
इति युक्तमेव भगोले शरवृत्ताबन्धनं लाघवं च । ग्रहगोलानपेक्षणादिति भावः ।।१५।।
**केदारदत्तः—**गोल में क्षेप वृत्त अर्थात् ग्रहों के भ्रमणमार्ग में विमण्डल वृत्त
निवेशन बताये जा रहे है—