सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 283, कुल 723 में से
संदर्भ में पढ़ेंछेद्यकाधिकारः १८१
नीचोच्चवृत्ते पुनरन्यथा ते तस्यानुलोमप्रतिलोमयाने ।
एका गतिः सा प्रतिभानमन्यत्प्राज्ञैः फलार्थं प्रविकल्पितं तत् ॥३१॥
भङ्गिद्वयं चेल्लिखितं विमिश्रं वृत्तद्वयेऽप्यत्र यथोक्तदत्तः ।
नीचोच्चवृत्तप्रतिवृत्तयोगे भवत्यवश्यं द्युचरस्तदानीम् ॥३२॥
यथा भवेत्तैलिकयन्त्रमध्ये काष्ठभ्रमो गोभ्रमतो विलोमः ।
नीचोच्चवृत्तभ्रमणं तथाऽन्यत्स्याद्गच्छतोऽपि प्रतिमण्डलेन ॥३३॥
वा० भा०—ग्रहः पूर्वगत्या प्रतिमण्डलेनैव भ्रमति । यदेतन्नीचोच्चवृत्तं
तत्प्राज्ञैर्गणकैः फलार्थं कल्पितम् । तत्र प्रतिमण्डलगतेर्विलोमं ग्रहो गच्छन्निव
प्रतिभाति । कथं तत्र विलोमगतिः प्रतिभाति । तत्र दृष्टान्तः । यथा तैलिकयन्त्र-
मध्ये तिलपीडनार्थमूर्ध्वकाष्ठं प्रक्षिप्यते । तस्य यथा गोभ्रमाद्विपरीतो भ्रमः ।
तत्र गौः किलापसव्यं भ्रमति । तदूर्ध्वकाष्ठं तथा भ्राम्यमाणमपि स्वाङ्गेन
सव्यभ्रममुत्पाद्यति । एवं नीचोच्चवृत्ते भ्रमणं विपरीतमिव प्रतिभाति । शेषं
स्पष्टम् ॥३०॥३१॥३२॥३३॥
इति मिश्रभङ्गिः ।
मरीचिः—ननु स्वरूपद्वैविध्याभावादेकस्य ग्रहस्योभयत्रावस्थानं विरुद्धमित्यतः प्रति-
वृत्तनीचोच्चवृत्तग्रहगमनावस्थानकथनपूर्वकमेकत्रैव तत्त्वतस्तदवस्थानमुपजातिकेन्द्रवज्राभ्या-
माह—मन्देति ।
प्रतिमण्डले पूर्वोक्ते । प्राक् पूर्वाभिमुखम् । ग्रहस्तत्त्वतः स्वगत्या गच्छन्मन्दोच्चतो
मन्दप्रतिवृत्तस्थोच्चस्थानात् । अनुलोमं कक्षास्थराशिक्रममार्गेण निजकेन्द्रगत्या मन्दकेन्द्रगत्या
भ्रमति गच्छतीव भाति । अनेन स्वगत्या वस्तुतो गच्छतो ग्रहस्य मन्दकेन्द्रगत्या गमन-
मसंभव्येवेति मन्दोच्चतः केन्द्रगत्याऽनुलोमगमनभानादुत्प्रेक्षेति सूचितम् । कुतस्ततोऽनुलोम-
गमनभानमत आह—अग्र इति । मन्दोच्चग्रहयोः प्राग्गमनादुच्चगतेरल्पत्वान्मन्दोच्चादग्र
एव केन्द्रगत्या भवतीत्यनुलोमभानं ततः सम्यगेवेति भावः । शीघ्रात्-शीघ्रप्रतिवृत्तस्थोच्च-
स्थानात् । विलोमं कक्षास्थराशिक्रममार्गाद्विपरीतमार्गेण निजकेन्द्रगत्या शीघ्रकेन्द्रगत्या
गच्छतीव भाति । अत्रापि शीघ्रप्रतिवृत्ते ग्रहस्य स्वगत्या पूर्वगमनात्केन्द्रगत्या ततो
विलोमगमनभानमुत्प्रेक्षेति ध्येयम् । अत्र हेतुमाह—विलम्बित इति । यस्माद्धेतोः पृष्ठतः
शीघ्रोच्चात्पश्चादेवकारात् कदाचित्तस्मात्पूर्वतो नेत्यर्थः । विलम्बितः शीघ्रप्रतिवृत्ते
लम्बितो भवति । शीघ्रोच्चग्रहयोः पूर्वगमनाच्छीघ्रोच्चगतेरधिकत्वाच्छीघ्रोच्चात्पश्चादेव
ग्रहो भवतीति केन्द्रगत्या ततो विलोमगमनभानं युक्तमिति भावः । नीचोच्चवृत्तस्थिति-
माह—नीचोच्चवृत्त इति । तस्य प्रतिवृत्तस्थग्रहस्यानुलोमप्रतिलोमयाने मन्दोच्चात्पूर्वतः
शीघ्रोच्चात्पश्चादिति गमने । ते पूर्वश्लोकप्रतिपादिते नीचोच्चवृत्ते । पुनरिति वाक्या-
लंकारे । अन्यथा वैपरीत्येन भवतः । मन्दप्रतिवृत्ते मन्दोच्चादनुलोमगमनं तदत्र मन्दनी-