सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 274, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 274

१७२ गोलाध्याये
स्पष्टी करण के अनन्तर उनकी स्थिति शीघ्र प्रतिवृत्त में होती है न कि कक्षावृत्त में
अत एव शीघ्र प्रतिवृत्तीय ग्रह ज्ञान पूर्वक पुनः उनके मन्दस्पष्ट ग्रहों में मन्दफल साधन
के अनन्तर शीघ्रफल साधन और उसका संस्कार आवश्यक होता है तभी भौमादि ५
पंचतारा ग्रह सुस्पष्ट होते हैं ।
उपपत्ति—पूर्व क्षेत्र से आगत स्पष्ट ग्रह को मन्द स्पष्ट ग्रह समझ कर मन्दस्पष्ट
ग्रह = मध्यम ग्रह स्थानीय मान कर प्रतिवृत्त क्षेत्र भङ्गी द्वारा जो ग्रह कर्ण आवेगा उसे
शीघ्र कर्ण समझ कर कर्णानुपात से साधित मन्दफल = शीघ्रफल समझ कर मन्दस्पष्ट ग्रह
में धन वा ऋण, शीघ्र फल संस्कार से स्पष्ट ग्रह सिद्ध होते हैं । यही उपपत्ति है ॥११८॥
इदानीमुच्चोपपत्तिमाह—
भ्रमन्ग्रहः स्वे प्रतिमण्डले नृभिः स यत्र कक्षावलये विलोक्यते ।
स्फुटो हि तत्रास्य फलोपपत्तये प्रकल्पितं तुङ्गमिहाऽऽद्यसूरिभिः ॥११९
यः स्यात्प्रदेशः प्रतिमण्डलस्य दूरे भुवस्तस्य कृतोच्चसंज्ञा ।
सोऽपि प्रदेशश्चलतीति तस्मात्प्रकल्पिता तुङ्गगतिर्गतिज्ञैः ॥१२०॥
उच्चाद्भषट्कान्तरितं च नीचं मध्यः स्वनीचोच्चसमो यदा स्यात् ।
कक्षास्थमध्योपरि कर्णसूत्रपातात्स्फुटो मध्यसमस्तदानीम् ॥१२१॥
वा० भा०—उच्चदेशात्क्रमेण चलितस्य फलप्रवृत्तिर्दृश्यते । अतस्तुङ्गं
कल्पितम् । शेषं स्पष्टम् । मध्यगतिवासनायां च सविस्तरमुक्तम् ॥११९॥१२०॥१२१॥
मरीचिः—ननुक्तच्छेद्यके ग्रहदानं कक्षायां प्रतिवृत्ते च युक्तम् । तत्स्पष्टस्वरूपावग-
मस्य विना तद्दानमशक्यत्वात्परं तूच्चदानं तत्र किमर्थम् । उच्चपदार्थस्याऽऽकाशे दर्शना-
भावेनावस्तुभूतत्वादित्यतो वंशस्थवृत्तेन तदुत्तरमाह — भ्रमन्निति ।
स्वे प्रतिमण्डले मन्दशीघ्रप्रतिवृत्ते स क्रमेणाहर्गणानीतमध्यो मन्दस्फुटो ग्रहो भ्रम-
न्गच्छन्पूर्वतो नृभिर्भूपृष्ठस्थैर्मनुष्यैः कक्षावृत्ते यत्र यस्मिन्प्रदेशे दृश्यते तत्प्रदेशकर्णसमसूत्रेण
भूगर्भसंबन्धद्वारा दृश्यत इत्यर्थः । तत्र तत्कक्षाप्रदेशे । हि यतः स्फुटो यथायोग्यं मन्द-
स्फुटस्पष्टग्रहयोर्भोगोऽतो ग्रहस्य कक्षावृत्ते मध्यस्फुटग्रहयोरन्तरं फलम् । तदुपपत्तये
तदुत्पादनार्थम् । इह कक्षावृत्ते । चाऽऽद्यसूरिभिः प्राचीनगोलतत्त्वाभिज्ञैस्तुङ्गं यथायोग्यं
मन्दशीघ्रोच्चं प्रकल्पितं दत्तम् । प्रकल्पितमित्यनेनाऽऽकाशे तदर्शनादवस्तुभूतमपि फलानु-
पपत्त्याऽङ्गीकृतमित्यर्थः । तथा च मध्यस्फुटग्रहचिह्नयोरन्तररूपफलस्य मध्यस्फुटभुजान्तर-
रूपत्वेन दर्शनात्तस्योच्चरेखाधीनत्वाच्च तज्ज्ञानार्थमुक्तरीत्योभयत्र वृत्त उच्चदानमावश्य-
कम् । अत एव त्रिज्ज्याहता कर्णहृता भुजज्या तच्चापबाह्वोर्विवरं फलं वेत्युक्तं स्पष्टा-
धिकारे । अन्यथा फलोपजीव्यभुजकोटिज्ययोः स्वरूपदर्शनानुपपत्त्या कथमपि तत्साधित-
फलमुपपत्तिसिद्धं न स्यादिति भावः ॥११९॥