सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 267, कुल 723 में से
संदर्भ में पढ़ेंछेद्याधिकारः १६५
चक्रांशैरङ्कयम् । अथोच्चरेखोपरि नीयमाना यत्र लगति तत्र प्रतिमण्डलेप्युच्चं
कल्प्यम् । तस्मादुच्चां शभागान् विलोमतो गणयित्वा तदग्रे मेषादिः कल्प्यः ।
ततो ग्रहोऽनुलोमं देयः । तत्र ग्रहोच्चयोरन्तरं केन्द्रम् । उच्चरेखायास्तिर्यग्ग्रह-
गामिनी रखा सा दोर्ज्या । प्रतिमण्डलमध्ये या तिर्यग्रेखा तद्ग्रहयोरन्तरं कोटि-
ज्या । सा किलोर्ध्वरूपा भवति ॥१०।११।१२।१३।१४॥
मरीचिः—अथ छेद्यकविधानकथने प्रथमं वृत्तद्वयलेखनमुपजातिकयाऽऽह—त्रिभज्य-
केति । कर्कटकशलाकाग्रयोरन्तरं त्रिज्याप्रमाणं धृत्वाऽभीष्टस्थानात्तेन कक्षासंज्ञं वृत्तं प्रथम-
मादौ लिखित्वा तद्वृत्तमध्यकेन्द्रादभितो मध्यग्रहविकलापञ्चदशांशमितव्यासार्धेन सुवृत्तां
महीं पृथ्वीसंज्ञं वृत्तं लिखेत् ।