सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 238, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 238

१३६ गोलाध्याये

चान्द्रत्वे सौरत्वे चाधिमासशेषं तुल्यमेव स्यात् । किन्त्वेकत्र रविदिनानि च्छेदः ।
अन्यत्र चान्द्राणि । एवमवमशेषस्यापि तुल्यत्वमेव । एकत्र चन्द्रदिनान्यन्यत्र
कुदिनानि च्छेदः । अधिमासावमशेषयोरिष्टजातित्वं प्रकल्प्य मतिमद्भिश्श्चन्द्रार्का-
नयनानि कृतानि । तत्र ये जडास्ते वासनां पर्यालोचयन्तो भ्रमन्ति ॥१३॥१४॥
मरीचिः—ननु सौराच्चान्द्राणामधिकत्वादन्तरं यथाऽधिमासास्तथैव तदन्तरेण
चान्द्रात्सौराणां न्यूनत्वान्मिता न्यूनसौरमासा भवन्तीति कथं नियतमधिमा-सोक्तिरतो
ऽनुष्टुभाऽऽह—सौरेभ्य इति ।
ते सौरचान्द्रान्तररूपा अधिमासाश्चेद्यदि चान्द्रसाधनार्थं सौरेभ्यः साधितास्तदा लब्धा-
धिमासाश्चान्द्रा अहर्गणसाधनार्थमिष्टसौरदिवसानां चान्द्रावगमाय त