सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 234, कुल 723 में से
संदर्भ में पढ़ें१३२ गोलाध्याये
उपपत्ति—सूर्यचन्द्रमा के योग काल का नाम अमान्त काल होता है। शीघ्रगतिक
चन्द्रमा सूर्य से निरन्तर आगे चल कर पुनः सूर्य से योग करता है, इस प्रकार द्वितीय,
तृतीयादि अमान्त मास होते हैं। अर्थात् सूर्य और चन्द्रमा का अन्तर जब १२ राशि =
३६० अंश = २१६०० कला होता है तो वही अमान्त काल होने से अनुपात से—
चन्द्रगति — सूर्यगति = गत्यन्तर ।
१ सावन दिन × २१६०० कला
अतः, ---------------------------------- = चान्द्र मासान्त की सावन दिन संख्या
गत्यन्तर
अथवा एक चान्द्र मास की समाप्ति दिन की सावन दिन संख्या = २९ दिन, ३१
घटी ५० पल होते हैं—उपपन्न हैं ॥९॥
इदानीमधिमासोपपत्तिमाह—
चान्द्रोनसौरेण हृतात्तु चान्द्रादवाप्तसौरैर्दर्शनैर्लाढचैः ।३२।१६।
मासैर्भवेच्चान्द्रमसोऽधिमासः कल्पेऽपि कल्प्या अनुपाततोऽतः ॥१०॥
सौरान्मासाद्दैन्दवः स्याल्लघीयान्यस्मात्तस्मात्संख्यया तेऽधिकाः स्युः ।
चान्द्राः कल्पे सौरचान्द्रान्तरे ये मासास्तज्ज्ञैस्तेऽधिमासाः प्रदिष्टाः ॥११॥
वा० भा०--अत्र द्वितीयश्लोकस्तावत्प्रथमं व्याख्यायते । सौरान्मासाद्दैन्दवो
मासो यतो लघुरतः कारणात्कल्पे सौरमाससंख्यायाश्चान्द्रमाससंख्याऽधिका भवति ।
यथा धान्यराशिमानेऽष्टसेतिकाहारमितेः षट्सेतिकाहाररमितिरधिका भवतीति
बालैरपि बुध्यते । यावन्तश्चान्द्रमासाः कल्पेऽधिका भवन्ति तत्संख्याधिमाससंख्या
तज्ज्ञैः कल्पिता। तत्र कियद्भिः सौरैरेकोऽधिमासो भवतीति युक्तिरुच्यते--चान्द्रोन-
सौरेण हृतात्तु चान्द्रादिति । सौरमासकुदिनेभ्यश्चान्द्रमासकुदिनेषु शोधितेषु शेषं
दिन-स्थाने पूर्णमधश्चतुष्पञ्चाशद्घटिकाः सप्तविंशतिः पलानि सावयवानि ०।५४।
२७।३१।५२।३०। एकस्मिन् सौरमास इदं सौरचान्द्रान्तरं कुदिनात्मकम्। युगस्याऽऽदे-
रुपर्यकस्मिन् दर्शान्ते प्राप्त एकश्चान्द्रमासः पूर्णस्तदनन्तरं चतुष्पञ्चाशद्घटि-
काभिः सावयवाभिर्मध्यमार्कस्य वृषभसंक्रान्तिस्तत्र रविमासः पूर्णस्ततोऽन्यस्मिन्
दर्शान्ते प्राप्तेऽन्यश्चान्द्रमासान्तः । ततो दर्शान्तादुपरि द्विगुणाभिस्ताभिरेव घटी-
भिर्मिथुनसंक्रान्तिः । एवं त्रिगुणचतुर्गुणादिभिः कर्कादिसंक्रान्तयो भवन्ति । एवं
संक्रान्तिरग्रतो याति । पुनर्दर्शान्तं प्राप्नोति । तदा गतचान्द्रमासेभ्यः सौरा एकोना
भवन्ति । यदासंक्रान्तिर्दर्शान्तमतिक्रम्याग्रतो याति तदाऽनुपातेन यावन्तः सौरा
भवन्ति तावद्भिरेकोऽधिमासः । तत्रानुपातः । यद्यनेन सौरचान्द्रान्तरेण कुदि-
नात्मकेन ०।५४।२७।३१।५२।३० एक सौरो मासो भवति तदा चान्द्रमासान्तः-
पातिभिः कुदिनैः २९।३१।५० कियन्त इति । फलं सूर्यमासाः ३२।१५।३१।२८।४७।