सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 207, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 207

भुवनकोशः १०५
"समखातफलत्र्यंशः सूची खाते फलम्" इस सूत्र से गोल पृष्ठ फ x स / स x व्यास / २ x ३
= गोल पृष्ठ फल x व्यास / ६ = गोल घन फल इत्यादि । विशेष स्पष्टता लीलावती ग्रन्थ के
अध्ययन से विद्यार्थियों ने समय समय पर समझना चाहिए । ।५८।५९।६०।६१॥
इदानीं भूमेः प्रलयभेदौ प्रलयांश्चाऽऽह—
वृद्धिर्विधेरह्वि भुवः समन्तात्स्याद्योजनं भूभवभूतपूर्वैः ।
ब्राह्मे लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृत्तिकेऽखिलायाः ॥६२॥
दिने दिने यन्म्रियते हि भूतैर्दैनन्दिनं तं प्रलयं वदन्ति ।
ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि यद्ब्रह्मतनुं विशन्ति ॥६३॥
ब्रह्मात्यये यत्प्रकृतिं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः ।
लीनान्यतः कर्मपुटान्तरत्वात्पृथक् क्रियन्ते प्रकृतेर्विकारैः ॥६४॥
ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समाधाय हरौ परेशे ।
यद्योगिनो यान्त्यनिवृत्तिमस्मादात्यन्तिकं चेति लयश्चतुर्धा ॥६५॥
वा० भा०—अत्र लयो नाम भूतविनाशः । स तु सांप्रतं प्रत्यहमुत्पद्यते । स
दैनंदिन उच्यते । यो ब्रह्मदिनान्ते चतुर्युगसहस्रावसाने लोकत्रयस्य संहारः स
ब्राह्मो लय उच्यते । तत्राक्षीणपुण्यपापा एव लोकाः कालवशेन ब्रह्मशरीरं प्रवि-
शन्ति । तत्र मुखं ब्राह्मणाः । बाह्वन्तरं क्षत्रियाः । ऊरुद्वयं वैश्याः । पादद्वयं
शूद्राः । ततो निशावसाने पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादिस्थानेभ्यः कर्म-
पुटान्तरत्वादब्राह्मणादयस्तत एव निःसरन्ति । तस्मिन् प्रलये भुवो योजनमात्र-
वृद्धेर्विलयो नाखिलायाः । अथ यदा ब्रह्मण आयुषोऽन्तस्तदा यः प्रलयः स महा-
प्रलय उच्यते । तत्र ब्रह्मा ब्रह्माण्डे । तत् पाञ्चभौतिके । भूर्जले । जलं तेजसि ।
तेजो वायौ । वायुराकाशे । आकाशमहंकारे अहंकारो महत्तत्त्वे । महत्तत्त्वं
प्रकृतौ । एवं सकलभुवनलोका अक्षीणपुण्यपापा एवाव्यक्तं प्रविशन्ति । यदा
भगवान् सिसृक्षुः प्रकृतिपुरुषौ क्षोभयति तदा तानि भूतानि कर्मपुटान्तरत्वात्प्रकृतेः
स्वत एव निःसरन्ति । यथाऽऽह श्रीविष्णुपुराणे पराशरो जगदुत्पत्तिकारणम्—
प्रधानकारणीभूता यतो वै सृज्यशक्तय इति ।
सृज्यशक्तयस्तत्कर्माणि । तान्येव सृष्टौ मुख्यं कारणम् । इतराणि निमित्त-
कारणानि । अन्यैरप्युक्तम्—
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
नह्यात्मनां भवति कर्मफलोपभोगः कायाद्विनेत्यादि ॥