सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 176, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 176

७४ गोलाध्याये
सीताख्या भद्राश्वं सालकनन्दा च भारतं वर्षम् ।
चक्षुश्च केतुमालं भद्राख्या चोत्तरान् कुरून् याता ॥३८॥
या कर्णिताभिलषिता दृष्टा स्पृष्टाऽवगाहिता पीता ।
उक्ता स्मृता वा पुनाति बहुधाऽपि पापिनः पुरुषान् ॥३९॥
यां चलिते दलिताखिलबन्धो गच्छति वलगति तत्पितृसंघः ।
प्राप्ततटे विजितान्तकदूतो याति नरे निर्यात् सुरलोकम् ॥४०॥
वा० भा०—गङ्गां यामीत्युपक्रमं कुर्वत्यपि नरे तस्य पितॄणां नरकस्थानां
यमपाशबन्धास्त्रुटयन्ति । अथ गच्छति मार्गलग्ने तत्पितरो वलगन्ति । अस्मत्कुलजो
गङ्गां गच्छति । अतोऽस्माकं दुष्कृतकर्मविच्छेदादूर्ध्वगतिर्भविष्यतीति हर्षेणोत्प-
तन्ति । अथ प्राप्ततटे गङ्गासन्निस्थिते स्वकुलजे गङ्गाबलेन मुष्टिघातादिभिरन्तक-
दूतान् जित्वा देवलोकं यान्ति । एवंविधाया गङ्गाया मन्दाकिन्याः किमन्यद्वर्ण्यत
इत्यर्थः । शेषं स्पष्टम् ॥३७॥३८॥३९॥४०॥
मरीचिः—अथ प्रसङ्गाद्भगवच्चरणारविन्दस्मरणोपस्थितायास्तन्मकरन्दप्रवाहरूप-
गङ्गायाः पुराणप्रसिद्धत्रिलोकागमनं स्वजन्मपाण्डित्यवाग्विलासकृतार्थतासंपादनार्थं ग्रन्थ-
समाप्तिप्रचयप्रतिबन्धकीभूतविघ्ननिवारकमङ्गलाचरणार्थं च विवक्षुः प्रथमाधारपर्वतेषु
गङ्गागमनमुद्गीत्याऽऽह—विष्णुपदीति ।
विष्णुपदी विष्णोश्चतुर्भुजस्य वैकुण्ठाधिवासिनः पदं चरणारविन्दं तस्येयं तत्संबन्धिनी
गङ्गा । विष्णुपदात् । विष्णोः पीताम्बरस्य पदाद्वैकुण्ठस्थानान्मेरो उपरितनभागे मण्डला-
कारे मध्ये प्रवाहरूपेण पतिता । अस्मान्मेरोः सकाशात् । चतुर्धा । आत्मानं प्रवाहरूपेण
चतुर्भेदात्मकं संपाद्य समस्थलेषु जलप्रवाहस्यानेकत्वसंभवात् । वियता-आकाशमार्गेणाऽऽगता
सती । आधारपर्वतोपरिभागस्थितसमीचीनप्रागुक्तारुणादिसरोवरेषु संगता संलग्ना । यत्तु
विष्णुपदमाकाशं तत्रस्था वियद्गङ्गा मन्दाकिनी । विष्णुपदादाकाशादिति तन्न । पूर्वापर-
ग्रन्थसंगत्यनुपपत्तेः । विना कारणं परमेश्वरसंबन्ध्यर्थापलापकर्तुः सर्वजनतिरस्कार-
संभवःश्च ॥३७॥
अथेयं जम्बूद्वीपपवित्रतासंपादनार्थमिव जम्बूद्वीपेऽभित आगतेति गीत्याऽऽह—सीतेति ।
सा पुराणाद्युदितमहिमा गङ्गा । मेरुपूर्वभागस्थप्रवाहरूपेणारुणसरोवरमिलनद्वारा
सीताख्या । मेरोः पूर्वभागस्थमिलावृतप्रदेशं पवित्रीकृत्य भद्राश्ववर्षं प्रति याता । तन्मार्गेण
पर्वतादिभेदनं संपाद्य लवणसमुद्रं गतेत्यर्थः । मेरोर्दक्षिणभागगतप्रवाहात्मकगङ्गा मानससरो-
वरसंगततयाऽलकनन्दा । भारतं वर्षमस्मदधिष्ठितभारतवर्षमार्गेण समुद्रं मिलिता । चकाराद्-
दक्षिणभागस्थेलावृतप्रदेशहरिवर्षकिन्नरवर्षाणि संप्लाव्येत्यर्थः । पश्चिमभागगतप्रवाहात्मक-