सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 174, कुल 723 में से
संदर्भ में पढ़ें७२ गोलाध्याये
भद्राख्यं सुराणां धृतिकरम् । तथा च दैत्यकृतोपद्रवत्रस्तानां पलायनपराणां देवानामेतद्वने
सर्वतो भद्रं कल्याणं यत्रेति व्युत्पत्त्याऽवगततन्नाम्ना धृतिर्भवति । तया तत्रावस्थानं भव-
त्यतो मया धृतिसंज्ञमुक्तमिति भावः । सुपार्श्वे वैभ्राजसंज्ञम् । भ्राजिष्णु । अनेकमयूरहंस-
शुकसारिकापरभृतादिपतत्रिविरचितनानाकूजितादिभिः शोभायमानम् । चैत्ररथं नन्दनकं
धृतिवैभ्राजवनानि च क्रमश इत्युक्तेश्च ॥३४॥
ननु वनानि विना सरोवरं न भान्तीत्यतः सरोवराणि वंशस्थेनाऽऽह—सरांसीति ।
अथानन्तरमेतेषु वनेषु सरांसि सरोवराणि यथाक्रममुक्तक्रमेणारुणादीनि सन्तीत्यर्थः ।
चकारादन्यान्यपि वर्तन्त इत्यर्थः । तत्सद्भावे पुराणं प्रमाणमिति देवजलक्रीडास्थानत्वे-
नाऽऽह—सरःस्विति । उक्तसरोवरेषु देवा रमन्ते । जलक्रीडां कुर्वन्तीत्यर्थः । कुतो जलक्रीडां
कुर्वन्तीत्यत आह—जलकेलिलालसा इति । परस्परजलकणसिञ्चनजलमज्जनादिनानाविध-
जलक्रीडासु कृतान्त करणास्तदिच्छावन्त इत्यर्थः । इच्छाऽपि कुत इत्यत आह—रामारमण-
श्रमालसा इति । रामाः स्वाङ्गनास्ताभिः सह रमणं क्रीडनं सुरतादिकं तेन संजातो यः
श्रमस्तेनालसा व्यापारान्तराक्षमा इत्यर्थः । तदपनोदस्त्व जलक्रीडयेति तदिच्छा जायते ।
तथा च येष्वमरपरिवृढाः सह सुरललनालालामयूथपतय उपदेवगणैरुपगीयमानमहिमानः
किल विहरन्तीति भागवतमत्र प्रमाणमिति भावः ॥३५॥
अथ प्रसङ्गाद्वसन्ति मेरौ सुरसिद्धसंघा इति पूर्वोक्तं साधारणं विशेषतोऽवगमार्थं वसन्त-
तिलक्या विशदयति—सद्रत्नेति ।
सद्रत्नकाञ्चनमयं समीचीनरत्नकाञ्चनाभ्यां घटितं तन्मयं शिखरत्रयमस्ति । चका-
रादन्यान्यपि शिखराणि सन्त्यत एवायं रत्नसानुरभिधीयते । तेषु शिखरेषु मुरारिकपुरारि-
पुराणि । एकस्मिन् शिखरे मुरारेर्विष्णोः पुरं वैकुण्ठाख्यमस्ति । द्वितीयशिखरे कस्य
ब्रह्मणः पुरं शातकुम्भाख्यम् । तृतीयशिखरे शिवलोकाख्यम् । तेषामुक्तपुराणामधोभागे
मेरावष्टदिशामभितोऽष्टसंख्यानि पुराणि सन्ति । केषामतो नामान्याह—शतमखेति ।
पूर्वभाग इन्द्रस्यामरावतीपुरम् । आग्नेयभागे वह्नेस्तेजोवत्याख्या । दक्षिणभागे यमस्य
संयमिनी । नैर्ऋत्यभागे राक्षसस्य कृष्णाञ्जनाः । पश्चिमभागे वरुणस्य श्रद्धावती ।
वायव्यभागे वायोर्गन्धवती । उत्तरभागे महोदया शशिनः सोमस्य कुबेरस्येत्यर्थः ।
वेदे सोमपदेन तदभिधानप्रसिद्धेः । ईशानभाग ईशस्य महेश्वरावान्तरभेदस्य यशोवती
पुरी । दिक्पालानामहष्टानां तदधोभागे स्वस्वदिशि पुराणि सन्तीति तात्पर्यार्थः ।
चकारान्मध्यभागे सिद्धानां स्थितिरित्यर्थः ॥३६॥
केदारदत्तः—इलावृत्त के मध्य में कर्णाभूषण की तरह सुवर्णमय मेरु पर्वत स्थित
हैं । इस मेरु पर्वत की तीन चोटियों पर विष्णु, ब्रह्मा और पुरारि प्रभृति (त्रिदशालय)
देव वृन्द की स्थिति कही गई है ।
मेरु पर्वत के चारों तरफ की आधार शिलाएँ, अर्थात् मेरु के पूर्व में मन्दर, दक्षिण